सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1000, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1000

[ अधि - ४. सू - ३० ] दीपिकासहितम्. ९५३
एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत् ॥ इति
हरिवंशेषु ॥ ३० ॥
( २९ ) सू- ॐ ॥ शब्दश्चातोऽकामचारे ॥ ॐ ॥ ३१ ॥
'स य एतदेवं विदेवं मन्वान एवं पश्यन्न कामचारि
तं चरेन्न कामे भक्षयीत न काममनुवर्तेत' इति कौ
षिण्ड्यश्रुतौ ।
( ३० ) अत इत्यल्पफलत्वं सूचयति ।
न निषिद्धानि वर्तेत पूर्णज्ञानफलेच्छया । इति पाद्मे ॥ ३१ ॥
[तस्य पापादुद्धरणक्षमः । किमु अनेतादृश इति कैमुत्यमपिशब्दार्थः ।
श्रुत्युक्तं 'श्रौतं' स्मृत्युक्तं 'स्मार्तं' 'आचारं' तदङ्गकं न विसर्जये
दित्यस्य सत्कर्मकरणं निषिद्धाकरणं च न परित्यजेदित्यर्थः ॥
( २९ ) न केवलं स्मृतिरेव निषेधिका, अपि तु श्रुतिरपीत्याह-सू
त्रकृत् - शब्द इत्यादिना ॥ यतोऽकामचारे न केवलं स्मृतिः, अपि तु
'शब्दश्च' श्रुतिरप्यस्ति अतः । एवमतश्च कामचारस्याल्पफलत्वाच्च
न ज्ञानिनः कामचारो युक्त इत्यतोऽल्पफलत्वाद्योऽयमकामचारस्तत्र श
ब्दश्चास्तीति वा सूत्रवृत्तिमभिप्रेत्य तत्र शब्दपदोक्तां श्रुतिमुदाहरति-
स इति । 'यः' अधिकारी 'एतत्' ब्रह्म 'एवं' उक्तगुणवत्त्वेन 'वि
त्' श्रवणेन विषयीकुर्वन् 'मन्वानः' तद्विषयकमननध्याने कुर्वन्नथ प
श्यन्नास्ते सः 'कामचरितं' कामगमनं 'न चरेत्' न कुर्यात् । यद्वा-
कामचरितं यथा भवति तथा 'न चरेत्' न गच्छेदित्यर्थः । 'कामं'
यथेच्छं न भक्षयीत 'कामं' निषिद्धरागं सर्वं काम्यं वा नानुसरेदि
ति श्रुत्यर्थः । श्रुतावित्यस्य अकामचार उक्त इति विपरिणताध्याहृतप
दाभ्यामन्वयः ॥
( ३० ) ननु निषिद्धकरणे बाधकाभावात्क्रियत इत्यतस्तदुत्तरत्वे
नात इत्यंशं व्याख्याति-अत इति ॥ अतश्शब्देन निषिद्धकरणसमाना
धिकरणज्ञानस्य 'अल्पफलत्वं' तद्धेतुत्वं, यद्वा-निषिद्धकरणस्य 'अ
ल्पफलत्वं' फलह्राससाधनत्वं 'सूचयति' परामर्श्यति सूत्रकृदित्य
र्थः । पूर्वं 'तथापि तु' इति तुशब्देन सत्प्रवृत्तेः पूर्णफलकत्वसूचनेन
असत्प्रवृत्तेरल्पफलत्वस्यार्थात् आगतत्वात्तस्य इहातश्शब्देन पराम
र्शो युक्त इति भावः । निषिद्धस्याल्पफलहेतुत्वमेव कुत इत्यत आह-
१२०