पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1002, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - ३३. ] दीपिकासहितम्. ९५५
यथा राज्ञस्सहकार्यैव मन्त्री
तथाऽप्यृते तं क्षितिपः कार्यमृच्छेत् ।
एवं ज्ञानं कर्म विनाऽपि कार्यं
सहायभूतं न विचारः कुतश्चित् ॥
इति कमठश्रुतौ सहकारित्वोक्तेश्च ।
( ३४ ) ज्ञानान्मोक्षो भवत्येव सर्वाकार्यकृतोऽपि तु ।
आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वातु वर्धते ॥ इति ब्र
ह्याण्डे ॥
( ३५ ) सर्वदुःखनिवृत्तिस्तु ज्ञानिनो निश्चितैव हि ।
न च सम्पूर्णफलार्थं तत्कर्तव्यमिति वाच्यम् । तस्य ह्रासकारणाभावे
स्वत एवसिद्धेः अन्यथा ज्ञानकर्मसमुच्चयवादापातादित्याशङ्कां प
रिहरत्सूत्रमुपन्यस्य व्याचष्टे—सहकारित्वेनेति ॥ सम्पूर्णफलसिद्धौ
ज्ञानसहकारित्वेनोक्तेश्च वर्णाश्रमविहितं कर्म कर्तव्यमिति सूत्रार्थः ।
सूत्रे हेत्वसिद्धिपरिहारायोक्तेरिति शेषः कार्यः, चः साध्यसूचकोऽपि
त्याशयेन श्रुत्युदाहरणपूर्वं सूत्रं व्याचष्टे—यथेति । यथा यद्यपि ‘क्षि
तिपो’ राजा ‘तं’ मन्त्रिणमृते राज्यकार्यं ‘ऋच्छेत्’ प्राप्नोति । त
थाऽपि राज्ञो मन्त्री सम्पूर्णकार्यसिद्धेः सहकार्यैव ‘एवं’ तथा यद्यपि
ज्ञानं कर्म विनाऽपि मोक्षकार्यं साधयेदिति शेषः । तथाऽपि कर्म स
म्पूर्णफलसाधने सहायभूतं फलाधिक्यहेतुत्वात् । नात्र कुतश्चित्कार
णात् संशयः कार्य इत्यर्थः । सहकारीति । कर्मणः संपूर्णफलसिद्धौ
ज्ञानसहकारित्वेनोक्तत्वाच्चेत्यर्थः । न केवलं विहितत्वादिति चार्थः ।
एतेन समुच्चयवादो निरस्तः, विनाऽपि कर्म ज्ञानमात्रेण मोक्षस्वरूप
सिद्धेः ॥
( ३४ ) ‘एवं ज्ञानं कर्म विनाऽपि’ इति श्रुत्युक्तार्थे स्मृतिं चाह—ज्ञा
नादिति ॥ ब्रह्मदर्शनादित्यर्थः । अकार्यं निषिद्धं कर्म । सर्वाकार्यकृता
दपीत्यपि व्याख्येयम् । ज्ञानिन इति शेषः । ‘अकार्यात्’ अनापदि नि
षिद्धकरणात् । ‘शुभं’ स्वस्ववर्णाश्रमोचितं ज्ञानिमात्रसाधारणं श
मादिकर्म च कृत्वा, स्थितस्येति शेषः । वर्धते आनन्दः शुभमिति वा ।
ब्रह्माण्डे सहकारित्वेनोक्तत्वादित्यन्वयः । एवं ब्रह्मतर्क इत्यस्याऽपि ॥
( ३५ ) ननु यदि सम्पूर्णानन्दप्राप्तौ कर्म सहकृतं ज्ञानं साधनं, त