सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 999, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 999

९५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
(२७) सू—ॐ ॥ अबाधाच्च ॥ ॐ ॥ २९ ॥
अन्यायाचरणाभावे न हि ज्ञानस्य बाधनम् ।
अतो विद्वानपि न्याय्ये वर्तेतोत्कर्षसिद्धये ॥ इति ब्रह्म
तर्के ॥ २९ ॥
(२८) सू—ॐ ॥ अपि स्मर्यते ॥ ॐ ॥ ३० ॥
अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः ।
तो मुनिरेतदुदकपाने उच्छिष्टं मया पीतं स्यादित्यनूवाच । तत्रेभ्यो
बभाषे एतेऽपि कुल्माषा उच्छिष्टाः ‘न स्विद्’ न किमिति । तत्र मुनि
रुवाच । किमिति ? यदि ‘इमान्’ कुल्माषान् ‘नाखादं’ नाभक्षयं
तर्हि ‘न वाऽजीविष्यं’ जीविष्यामि अतः प्राणत्यये दोषाभावात्ते म
या भक्षिताः उदपानं तु ‘मे कामो’ ममेच्छाधीनं इदानीं वर्तते । वृथो
च्छिष्टस्वीकारे दोषप्राप्तेस्तन्न पिबामीति । श्रुतावखादन्निति नञ्पूर्वं
शत्रन्तः, अखादन्नाजीविष्यामीत्यन्वयः । लिङयं टीकायां लङ् लि
ङ् चेति ज्ञेयम् ॥
(२७) ननु ज्ञानिनां निषिद्धाकरणे बाधकसद्भावात् न सदसत्प्रवृ
त्तिभ्यां विशेषो युक्त इत्याशङ्कां परिहरत्सूत्रं पठति—अबाधाच्चेति ॥
न केवलं निषिद्धकरणे साधकप्रमाणाभावात् ज्ञानिनः सदसत्प्रवृत्त्यो
रविशेषो न युक्तः, किन्तु निषिद्धाकरणे बाधकाभावाच्चेति सूत्रवृत्ति
मभिप्रेत्याबाधादिति हेतोरसिद्धिपरिहाराय सूत्रं स्मृत्यैव व्याचष्टे—
अन्यायेति । ‘अन्याय्याचरणं’ निषिद्धानुष्ठानं ‘हि’ यतः । ‘विद्वा
न्’ ज्ञानी न केवलमविद्वानित्यपिशब्दार्थः । निषिद्धं त्यजेदिति भिन्न
क्रमेण समुच्चये वाऽपिशब्दः । ‘न्याय्यं’ योग्यं सत्कर्म ‘वर्तेत’ अनु
वर्तेत । उत्कर्षो मोक्षानन्दातिशयादिरूपः । ब्रह्मतर्के उक्तादिति शे
षः । अस्याबाधादित्यनेनान्वयः । निषिद्धकरणे प्रमाणसत्त्वात् ज्ञानि
ना तत्कर्तव्यमिति पक्षान्तरं त्वसिद्धत्वादयुक्तमित्युक्तं—‘अचोदना’
इत्यत्र ॥
(२८) ननु ज्ञानिनो निषिद्धकरणनिषेधकप्रमाणाभावान्न सदसत्प्र
वृत्त्योर्विशेषो युक्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा सूत्राभिप्रेतस्मृति
मुदाहरति—अपीति ॥ वक्ष्यमाणश्रुतिसमुच्चयेऽपिशब्दः । हरिवंशेष्वि
ति । स्मर्यतेऽपीत्यपिशब्दान्वयः । यतो निषिद्धाकरणमिति शेषः । अ
स्यातो नाविशेष इति प्रकृतसाध्यपदेनान्वयः । त्रयो लोकास्त्रैलोक्यं