सामग्री पर जाएँ
सर्वकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 58, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 58

२६ प्रियदर्शिकायां
-: १ आर०—अयं २ सखीजनः पक्षपातेन मन्त्रयते । अयि सखि-
पक्षपातिनि । देवीगुणनिगडनिबद्धे खलु तस्मिञ्जने कुत एतत् । ( अअं
सहीअणो पक्खवादेण मन्तेदि । अइ सहिपक्खवादिणि । देवीगुणणिअलणिवद्धे खलु
तस्सिं जणे कुदो एदं । )
मनोरमा—( विहस्य । ) हला अपण्डिते कमलिनीबद्धानुरागोऽपि
मधुकरो मालतीं प्रेक्ष्याभिनवरसास्वादलम्पटः कुतस्तामनासाद्य स्थितिं
करोति । ( हला अपण्डिडे कमलिणीबद्धअणुराओ वि महुअरो मालईं पेक्खिअ
अहिणवरसास्सादलम्पडो कुदो तं अणासादिअ ठिदिं करेदि । )
आर०—किमेतेनासम्भावितेन । ३ तदेहि । अधिकं खलु शरदा-
तपेन संतप्यान्यथापि न मेऽङ्गानि संतापं मुञ्चन्ति । ( किं एदिणा असंभा-
विदेण । ता एहि । अहिअं क्खु सरदादवेण संतापाई अन्न वि ण मे अङ्गाई संदावं
मुञ्चन्ति । )
मनोरमा—अयि लज्जालुके न युक्तमेतदवस्थां गतायापि त आत्मा
अच्छादयितुम् । ( अइ लज्जाळुए ण जुत्तं एदावत्थं गदाए वि दे अप्पा पच्छादिदुं । )
( आरण्यिका मुखमवनमयति । )
मनोरमा—अयि अविश्रम्भशीले किमिदानीं प्रच्छादयसि । ४ निश्वा-
सनिभवनिर्गतो दिवसं रात्रिमपि तवानुरागोऽविरतपतत्कुसुमशरशरनि-
वहप्रवृत्तहुङ्कारशब्द इव न भणति । ( आत्मगतम् । ) अथवा न खल्वयं
काले उपालम्भस्य । ५ तद्यावन्नलिनीपत्राण्यस्या हृदये दास्यामि । ( उत्थाय
देवीगुणा एव निगडं लोहबन्धनस्तेन निबद्धे । मालती जातिपुष्पम् । लम्पटो लोलुपः ।
स्थितिं करोति स्वास्थ्यमेति । लज्जां लाति इति लज्जालु । 'भित्रादिभ्य उपसंख्या-
नम्' इति वार्तिकेन डुः । सैव लज्जालुका । अविश्रम्भशीले अदृष्टसामर्थ्येऽनभिविश्वासिनि ।
निश्वासनिभवनिर्गतः निश्वासच्छलेन विनिर्गतः । अविरतं पतन्त्यः कुसुमशरस्य मदनस्य
शरनिवहो बाणसमूहस्तस्मात्प्रवृत्तः हुङ्कारशब्द इव । न भणति न तवावस्थां कथयति किम् ।
१ एतद्वाक्यं नास्ति पुस्तकान्तरे. २ सखीजनपक्षपातेन मन्त्रयसे ( सखीअणपक्ख-
वादेण मन्तेसि ). ३ एतन्नास्ति क्वचित्.
४ अस्य स्थाने—श्वासनिभान्निर्गतो दिवसं रात्रिमपि तवानुरागः ।
अविरतपतन्मन्मथशरशतहुङ्कारशब्द इव ॥
( सासणिहा निग्गमिओ दिवसं रत्तिंपि तुज्झ अणुराओ ।
अविरअपडन्तमम्महसरसअहुङ्कार सद्दोव्व ॥ ) इति पद्यं क्वचित्.
५ तद्यावत्.