प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 57, कुल 184 में से
संदर्भ में पढ़ेंमनोरमा—(सास्रम् ।) हा धिक् हा धिक् । अतिभूमिं गतोऽस्या-
स्तपस्विन्या अनुरागः । तत्किमिदानीमत्र करिष्यामि । (हद्धि हद्धि । अदि-
भूमिं गदो से तवस्सिणीए अणुराओ । ता किं दाणिं एत्थ करिस्सं ।)
आर०—(साभिलाषम् ।) अयं स उद्देशो यस्मिन्मधुकैराया-
स्यमानामवलम्ब्य महाराजेन समाश्वासितास्मि भीरु मा बिभीहीति । (अअं
सो उद्देसो जस्सिं महुअरेहिं आआसिअन्ती ओलम्विअ महाराएण समस्सासिदम्हि
भीरु मा भभाहिति ।)
मनोरमा—(सहर्षम् ।) कथमेषापि दृष्टा महाराजेन । सर्वथास्त्यस्या
जीवितस्योपायः । यावदुपसृत्य समाश्वासयाम्येनाम् । (सहसोपसृत्य ।) युक्तं
नाम हृदयस्यापि लज्जितुम् । (कहं एसा वि दिट्ठा महाराएण । सव्वहा अत्थि
से जीविदस्स उआओ । जाव उवसप्पिअ समस्सासेमि णं । जुत्तं णाम हिअअस्स
वि लज्जिदुं ।)
आर०—(संस्तब्धमात्मगतम् ।) हा धिक् हा धिक् । सर्वं श्रुत-
मेतया । तदत्र युक्तमेव प्रकाशयितुम् । (प्रकाशं हस्ते गृहीत्वा ।) प्रिय-
सखि मा कुप्य मा कुप्य । लज्जैवात्रापराध्यति । (हद्धि हद्धि । सव्वं सुदं
एदाए । ता एत्थ जुत्तं एव्व पआसइदं । पिअसहि मा कुप्प मा कुप्प । लज्जा एव्व
एत्थ अवरज्झदि ।)
मनो०—(सहर्षम् ।) सखि अलं शङ्कया । एतन्म आचक्ष्व ।
सत्यमेव त्वं महाराजेन दृष्टा न वेति । (सहि अलं संकाए । एदं मे
आअक्ख । सच्चं एव्व तुम्हं महाराएण दिट्ठा ण वेत्ति ।)
आर०—(सलज्जमधोमुखी) श्रुतमेव प्रियसख्या सर्वम् । (सुदं
एव्व पिअसहीए सव्वं ।)
मनोरमा—यदि दृष्टा महाराजेन त्वं तदलं संतापितेन । स एवे-
दानीं दर्शनोपायपर्याकुलो भविष्यति । (जइ दिट्ठा महाराएण तुम्हं ता अलं
संताविदेण । सो एव्व दाणिं दंसणोवाअपज्जाउलो भविस्सदि ।)
अतिभूमिं परां कोटिम् । तपस्विन्याः अनुकम्प्यायाः । वराक्या इत्यर्थः । हृदयस्यापि
स्वहृदयादन्यतिरिक्ताया ममेत्यर्थः । आत्मगतं, प्रकाशं—सर्वश्राव्यं प्रकाश