पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पञ्चमः सर्गः । १४१
इन्द्रनीलगृहरश्मिभिस्सर्वाङ्गेषु नीलो भवति ॥(1.10) तद्गुणः ॥ अन्यदी-
यसितासितगुणग्रहणात् ॥ 169.
न शक्यते यदानेतुं कलिना म(1.11)लिनात्मताम् .
तमसा चन्द्रबिम्बं हि सविशेषं प्रकाशते ॥
कलिना यन्नगरं मालि(1.12)न्यं नेतुं न शक्यते यतः चन्द्रस्तमसात्यर्थं
शोभते ॥ अतद्गुणः कलिगुणाननुहारात् ॥(1.13) 170.
गृह्येत त्रिगुणं त्वत्तो न स्याद्ग्रहणं यदि .
प्रत्यादिशन्ति शम्भल्यो यस्मिन्नित्यान्तंकामुकान् ॥(114)
[यस्मिन्] कुंट्टिन्यो......न्तांन्कामुकानिति प्रत्यादिशन्ति निषे-
धयन्ति इति हेतोर्यदि तत्कर्तृ(1.15)कत्वं कर्मर्कम................त्यर्थः
तदा त्व[त्तः त्वत्]सकाशान्मया (1.16) त्रिगुणं गृह्येत परं सा तु त्वां न गृह्णाति
मद्धस्ते त्वया न्यस्तं यद्वस्तु तन्न गृह्णातीत्य(1.17)र्थः ॥ उत्तरम् ॥ अत्र
हि उत्तरात्प्रश्नमुन्नीयते . कामुकैर्हि कुट्टिनीनामुक्तमेतत्(1.18) इदं वस्तु तस्यै
देहि सा मत्समीपं त्वयानीयतामिति ततः कुट्टिनीभिः पूर्वोक्तमुत्तरं(1.19)
दत्तमस्मादुत्तरात्प्रश्नोन्नयनम् . त्वत्त इति कामुकपरामर्शकम् एकवचनं तु
प्र(1.20)त्येकं पृथग्भाषणात् कुट्टिन्यो ह्यभिसारिकाणां गौरवराक्षणार्थं जना-
नुत्तरयन्ति ॥(1.21*) 171.
कं यत्र पुष्करं गत्वा वरिवस्यन्ति साधवः .
कं पुष्कराद्गृहायातं स्पृष्ट्वा शुद्धिं च मन्वते ॥
पुष्करं ती(1.1)र्थ गत्वा साधवः कं ब्रह्माणमुपासते पुष्करतीर्थाद्गृहा-
यातं कं जलं स्पृष्ट्वा शुद्धिं मन्यन्ते कमि(1.2)ति प्रश्ने कं ब्रह्माणं कं जल-
मित्यत्तरं^7 द्वितीयम् ॥ 172.
1 Ms. शम्ब°. 2 Is it °त्यार्तं° ? 3 Ms. कुट्टिट°. 4 Is it आतान्कां° ?
5 Sic. Is it तत्कर्तृकं त्वत्कर्मकमग्रहणं ? 6 Ms. °ण्टण्यो°. 7 Ms. °रद्वि°.
१४२ पृथ्वीराजविजयमहाकाव्यम्
यत्र कर्णोत्पलन्यस्तहस्तं दीपावलो(l.3)किनीः .
दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ॥
दीपशमनार्थं कर्णोत्पलेषु न्यस्ता ह(l.4)स्ता यत्रैवं कृत्वा दीपानवलो-
कयन्तीर्नारीर्भर्तृनिकटे दृष्ट्वा सखीभिः प्रतिमुच्यते ॥(l.5) सूक्ष्मम् ॥
रिरंसारूपसूक्ष्मार्थप्रकाशनात् ॥ १७३.
शीतः पाणिरपथ्योयं सद्यो मे निरगाज्ज्वरः .(l.6)
यत्र रामा प्रियस्पर्शप्रस्वेदमिति निह्नुते ॥
इदानीं मम ज्वरो निर्गतोतस्तवायं पाणिः शी(l.7)तत्वादपथ्य इत्य-
नेन वचसा प्रियँस्पर्शन प्रस्वेदं रामाच्छादयति ॥ व्याजोक्तिः ॥ स्वेदेनो-
द्विन्नस्य(l.8) प्रियस्पर्शसुखस्य ज्वरनिर्गमनेन निगूहनात् ॥ १७४.
मा प्रवेक्ष्यति कोप्यन्तर्मा शब्दश्श्रूयते बहिः .(l.9)
वाक्यं यत्र नवोढानामिति कान्तैर्निगद्यते ॥
नवोढा वक्ति मा हठादिकं कुरु यतः कोप्यन्तः प्रवेक्ष्य(l.10)ति तथा
मायुङ्ग्ध्व यतो बहिशब्दश्श्रूयते एतदेव कान्ता अनुवदन्ति मा निषेधं कुरु
यतः कोप्य(l.11)न्तः प्रवेक्ष्यति काकुप्रयोगेण न प्रवेक्ष्यतीत्यर्थः मा निषेधं
कुरु यतो बहिशब्दश्श्रूयते काकु(l.12)प्रयोगेण न श्रूयते इत्यर्थः ॥ वक्रोक्तिः
काकुप्रयोगात् ॥ १७५..
कोप्यन्तर्मे न ते स्नेहः कोपवन्तं त्य(l.13)जान्तरात् .
नतोहमिति मानिन्यो रम्यन्ते यत्र कामिभिः ॥
मँमान्तः स्नेहस्तव नास्ति यद्वां त्वत्कर्तृकः स्नेहो मेन्तर्मयि विष(l.14)-
यभूतायां न भवतीति मानिनीनामुक्तिः कामिभिस्त्वन्यथा योजनं कृतम् त्वं
1 Ms. °न्तीन्नारीम्भ°. 2 Ms. °यिःशी°. 3 Ms. प्रियास्प°-. 4 Ms. वक्रो°.
5 Ms. ममा° to. यद्वा lc. under l. 13.
[कोपी] कोप(l.15)वान् मे मम नते प्रणते स्नेह इति त्वयोक्तम् तत्कोपमन्त-
राच्चित्ता[त्त्यज त]वाहं नैतः प्र(l.16)णामकारीत्युक्त्या कामिभिर्मानिन्यो
रम्यन्ते रमणीजनाः . मे इत्येकवचनमेकैककामिन्य(l.17)भिप्रायत्त् ॥
श्लेषेण सैव ॥ सैवेति वक्रोक्तिः ॥ 176.
यत्र स्तनन्धयान्हस्ते रत्नदीपं जिघृ(l.18)क्षतः .
दृष्ट्वा हाहेति संभ्रान्ता धात्री चेतैर्विहस्यते ॥
रत्नदीपं हस्ते गृह्णतो बालान्दृ(l.19)ष्ट्वा सम्भ्रान्ता हाहेति वदन्ती
धात्री चेतैरुपहस्यते ॥ स्वभावोक्तिः ॥ 177.
निपीडितस्य पूर्णे(l.20**39⁵)न्दोस्सुधया पङ्किलाङ्गुली .
यत्र मृत्युजितः पादौ भाव्येते भावितैः पुनः ॥
पीडितस्यासनभूत(l.1)स्य पूर्णचन्द्रस्यामृतेनाङ्गुली मृत्युजितो भग-
वतः पादौ भक्तैः प्रणिधीयेते ॥ भाविकम् ॥(l.2)अत्यन्तविप्रकृष्टस्य भगव-
दङ्घुलिपङ्किलत्वस्य प्रत्यक्षाद्यमाणत्वात् ॥ 178.
च्युतकर्पूरकस्तू(l.3)रीपांसुला पण्यवीथिका .
कुरुते पाण्डुरश्यामवाससो यन्निवासिनः ॥
च्युताभ्यां कर्पूरक(l.4)स्तूरीभ्यां पांसुला यत्राट्टवीथी यस्मिन्निवा-
सिनः पौरान्सितासितवस्त्रान्करोति ॥ उदात्तम् ॥(l.5) सातिशयसमृद्धिवर्ण-
नात् ॥ 179.
पारेसिन्धु विजिग्ये यां मध्येसिन्धु व्यधाच्च याम् •
रामः कृ(l.6)ष्णश्च नगरीं ते दास्ये यस्य नोचिते ॥
' समुद्रपारे यां नगरीं लङ्कां रामो जितवांस्तथा समु(l.7)द्रमध्ये नगरीं
1 Should be ॰कोपिनां. 2 Ms. ॰राश्चि॰. 3 Ms. ॰वाहनं नं॰. 4 Ms. वक्रो॰.
5 Ms. पृ. रा. ४५ vertically on margin.
द्वारवतीं कृष्णो यां व्यधात्ते नगर्यौ यस्य दासत्वयोग्ये न भवतः ॥
द्वितीयमुदात्तम् ॥(l.8)लङ्काजयद्वारिकानिर्माणयोर्महापुरुषचरितयोरङ्गभू-
तत्वात् ॥ 180.
चन्द्रांशुस्मेरधम्मिल्ल(l.9)मल्लिकानां प्रियान्प्रति •
सौधेषु गीतं रामाणां यत्रालिभिरनूद्यते ॥
चन्द्रांशुभिः स्मेराशु(l.10)भ्रतरा धम्मिल्लमल्लिका यासां स्त्रीणां
प्रियानुद्दिश्य गीतं सौधेषु सखीभिरनु पश्चा(l.11)दुच्यते गीयते ॥ रस-
वत् ॥ रतेरङ्गत्वाद्सवदलङ्कारः ॥ 181.
सौधेष्विन्दूदये शुद्धाः प्रि(l.12)यमार्गस्पृशो दृशः •
न व्याकुलयितुं भृङ्गा यत्रोत्पलदृशामलम् ॥
चन्द्रोदये प्रियमा(l.13)र्गवीक्षिणीरुत्पलदृशां दृष्टीर्व
पञ्चमः सर्गः . १४५
हठेन पादपतनं यत्र रामासु सागसाम् .
कोपाग्निं दीपयति च प्रसादान्बु च वर्षति ॥
रामासु सापराधनां संबन्धिं१ हठेन प्रणमनं कर्तृ कोपाग्निं ज्वलय-
ति हर्षजलं च वर्षति . प्रसादे इति वा पाठः ॥ भावसन्धिः ॥ असूयौत्सु-
क्ययो रत्यङ्गयोर्भावात् ॥ १८५.
लटभाभिस्स्वयं दत्तं विलासिषु नवंक्षतम्३ .
दृष्टं विस्मृत्य रत्यन्ते यत्रैति क्षणविघ्नताम् ॥
कामिनां तरुणीभिस्स्वयमेव दत्तं२ तदेव विस्मृतं सद्रत्यन्ते दृष्टं
विघ्नतामेति ॥ भावोदयः ॥ असूयोदयात् ॥ १८६.
यस्मिन्पराङ्मुखी रक्ता साश्रुस्स्मेरा च योषिताम् .
सुसखीसाक्षिकं दृष्टिर्भवत्यानमति प्रिये ॥
रमणीनां प्रिये प्रणमति सति दृष्टिः पराङ्मुखत्वादिसहिता४ स्निग्ध-
सखीसाक्षिकं भवति ॥ भावशबलता ॥ अमर्षासूयानिर्वेदहर्षाणां शब-
लत्वात् ॥ १८७.
भ्रूभङ्गभङ्गिभिस्त्रीणां येनाप्ताश्चापराजयाः .
कामस्य कामिभिर्यत्र कृतस्तस्य पराजयः ॥
येन कामेन भ्रूभङ्गविच्छित्तिभिर्हे५तुभिश्चापानां राजयः पङ्क्तयः प्राप्ताः
तस्य कामस्य कामिभिः पराजयः कृतः ॥ अनुप्रासयमकयोस्सं-
सृष्टिः ॥ १८८.
• केलीकोकिलकाकल्याः कल्पाः कान्तागिरो जये .
यत्र कामयमानानां नानाङ्गं सुवते सुखम् ॥
1 Ms. संबधि. 2 Ms. दत्तुं. 3 Is it नखं° ? 4 Ms. ॰खादि॰. 5 Ms. ॰भिहे॰.
१६
१४६ पृथ्वीराजविजयमहाकाव्यम्.
यत्र प्रियाणां वाचः(l.14) कामयमानानां कामिनां नानाविधं सुखमु-
त्पादयन्ति केलीकोकिलानां काकलीक(l.15)········स जये कल्पाः कुश-
लाः ॥ तयोरेव संकरः ॥ 189.
कर्पूरविपणौ यत्र सर्वस्मि···(l.16)- 190.
Lines 17 to end of page missing
स्थानेनामरावतीन्द्रनगरी भूरिसौभाग्यं स्पृशति . समगुणेति तात्पर्यम्.
या च स्त्री पुरुषार्थि(l.1)तद्वृत्तिसात्यार्थे सुभगा ॥ समासोक्त्युत्प्रेक्षा-
सङ्करः ॥ स्पृशतीति संभावनातात्पर्या(l.2)दार्थ्युत्प्रेक्षा नायिकाव्यवहारा-
रोपाच्च समासोक्तिः ॥ 191.
एवंविधामजयमेरुपुरः प्र(l.3)तिष्ठां
कृत्वा सकौतुक इवाजयराजदेवः .
दोर्वीर्यसंहतनयं तनयं विधाय
सिंहासने त्रि(l.4)दिवमीक्षितुमुच्चचाल ॥
एवंविधामजयमेरुनगरस्य प्रतिष्ठां कृत्वा स्वर्गदर्शनार्थं(l.5) कौतुकीव.
नगरान्तरलाभार्थमिति भावः . भुजबलमिलितनीतिं पुत्रं सिंहासने कृत्वा
(l.6)चलितः ॥ 192.
अर्णोराजोथ सादाशिवमनिशमनु
पञ्चमः सर्गः . १४७
'
प्राप्यैकमप्रतिमल्लं पुष्करक्षेत्रं समस्तभूमौ पुण्डरीकाणां (l.11) छत्राणां प्रकटं
विघटनेनोद्धतानां मातङ्गराजानां म्लेच्छानां त्रासायासोत्पादने व्यवस्थितं
(l.12)शक्तमकरोत् ॥ व्यवहितमिति पाठो नार्षः . सिंहश्च पुण्डरीकाणां
व्याघ्रविशेषाणां विघ(l.13)टनादधिकमुद्धतानां हस्तिनां भयमुत्पादयतीति
भद्रम् ॥ 193.
श्रीलोलराजसुतप(l.14)ण्डितभट्टनोन-
राजात्मजो विवरणेन स जोनराजः .
सर्गे चिराद्व्यधित पञ्चममञ्चि(l.15)---
︶︶︶︶︶︶︶︶︶︶राजे ॥
श्रीश्रीकण्ठचरित्रकाव्यविवृतौ(l.16)
Lines 17 to end of page missing
* * * * *
1 Ms. °यउ°, 2 Ms. °जः. Is it °ञ्चितं श्रीपृथ्वीमहेन्द्रविजयाभिधकाव्यराजे ?
[ षष्ठः सर्गः ]
समीयु-
र्भयं तदेवाजयमेरुनार्यः ॥
प्रथमं चन्द्रस्य राहुणा ग्रहे ग्रासे सति चन्द्रलोके दाक्षा(l.1)यणीनां
ताराणामश्विन्यादीनां यद्भयमासीत्तदेव तत्सममित्यर्थः दुर्गाङ्गनाः प्रापुः
(l.2)विषण्णे हस्तश्रश्रवणं च नक्षत्रे हस्तः करश्रश्रवणं कर्णौ यासां ताः ॥ 1.
रजोभिरेव प्रतिभानभङ्गे(l.3)
पूर्वस्य पुंसस्तरणेः प्रवृत्ते .
निर्गत्य सोष्मा विदधे स दोष्मा-
नौर्वाग्नितां तत्कटकार्णवस्य ॥
अ(l.4)र्णोराजस्य पूर्वः पुमानादित्यः तस्य रजोभिरेव प्रकाशनाशे
जाते सोष्मा दृप्तो दोष्मान्भुजशा(l.5)ली स····························[सै]न्य-
समुद्रस्य वडवाग्नितामकरोत् तत्कटकमशोषयदित्यर्थः ॥(l
षष्ठः सर्गः . १४६
भा(l.9)ग्यानि भवन्ति . यदि हि म्लेच्छा रणे संमुखा म्रियेरंस्तदार्कबिम्बं
भित्वा गच्छेयुः नत्वेवमतो न(l.10)रके पतिताः ।। ३.
दोश्शालिनामाजयमेरवाणां
यल्लोहघातैः करणीयमासीत् .
भारा(l.11)यमाणैर्निजवर्मलोहै-
स्तदन्वभूवन्बहवस्तुरुष्काः ॥
अजयमेरुभवानां भटानां श(l.12)स्त्राघातैर्यत्कर्तव्यमासीत्तद्भारीभूतै-
रायसकवचैर्बहवस्तुरुष्काः प्रापुः . निजकवचभ(l.13)रैरेव मृता इत्यर्थः।। ४.
पुरोगतानामसवो निरीयुः
पिपासया ये मरुधूलिमध्ये .
तैरेव सा(l.14)~~~~~—
—————— ॥
.........पिपासया(l.15) ५.
Lines 16 to end of page missing
—घतस्कराढ्ये
सुखेन पाथेयमिवात्तवद्भिः ॥
अश्वग्रीवास्वायुधप्रहारं दत्वा शोणितं पीतवद्भिः कैश्चिन्मृतम् .
भावे क्तः . अत्रोत्प्रेक्ष्यते पापचोरसंकुले नरमार्गे पाथेयमिव गृह्णद्भिः(l.2) .
चौरबहुले च लोकः पाथेयं गृह्णाति ॥ ६.
मरुस्थलीवालुकया प्यधत्त
कांश्चिद्दिपन्नांल्लु(l.3)ठतः पृथिव्याम् .
1 Ms. दौ°.
१५० पृथ्वीराजविजयमहाकाव्यम्.
संस्कारमात्मोचितमन्तकाले
प्रवर्तयन्ती कृपयेव वात्या ॥
मृतान्भूमौ लुठ(1.4)तोन्वान्वातसमूहो मरुसिकतयाच्छादयत् . अत्रो-
त्प्रेक्ष्यते कृपया हेतुभूतया यवनोचि(1.5)तं प्रेतसंस्कारं भूमिनिखननलक्षणं
प्रवर्तयन्तीव ॥ ७.
रुध्वा स्थितान्कांश्चन राजमार्ग
ग्रा(1.6)म्याश्शवान्गन्धभयेन हुत्वा .
तुरुष्कमांसस्य चिराद्रसज्ञं
क्रव्यादमग्निं रचयांबभूवुः ॥(1.7)
राजमार्गमावृत्य स्थितान्कांश्चन शवान्गन्धभयेन हुत्वा ग्रामिणः क्रव्या-
दमसंस्कृतमग्निं (1.8) तुरुष्कमांसस्यास्वादज्ञं चिराच्चक्रुः ॥ ८.
बभूव यावानवनेः पुरस्ता-
द्भारस्तुरुष्कैर्व्यसुभि(1.9)र्लुठद्भिः .
तावानभून्मेदुरितोदरीणां
तत्पारणाद्भारणतश्शिवानाम् ॥
तुरुष्कैर्गतप्रा(1.10)णैर्लुठद्भिः पूर्वं भूमेर्यावान्भारोभूत्तावानेव भारस्त-
त्पारणात्तुरुष्कग्रसनात्पीवरोदरीणां (1.11) जम्बुकीनां धारणातोभूत् . पार-
णाशब्दो भक्षणे वर्तते. तुरुष्कभक्षणे निवृत्तस्य भारस्य शिवामे(1.12)दुर-
त्वात्पुनरुदयः ॥ ९.
असृचि तेषां विशतामुलूकै-
स्सपादलक्षं यदमङ्गलं प्राक् .
त(1.13)त्तत्पलास्वादननिर्वृतस्य
भद्रं बभाषे बलिभुक्कुलस्य ॥
1 Ms. °भिः लु°. 2 Ms. °निवृ°.
'
सपादलक्षं नाम देशविशे(l.14)षं विशतां म्लेच्छानाममङ्गलमुलूकैः
कौशिकैर्येत्सूचितं तदमङ्गलमेव कर्तृ काक(l.15)[कुलस्य] शुभमसूचयत्
यतो मृतम्लेच्छमांसग्राससुखितस्य . आसादनेति पाठो ना(l.16)[र्षः]
...... ॥ 10.
~-~~~~~- रीति
परस्परस्याप्सरसो हसन्त्यः .
जनङ्गमैमूर्धभिरर्ध(l 17)~~
...............रुदयं समेभ्य(l.18) 11.
[Lines 19 to end of page missing](*)
तिस्ते तत्र कथामात्रमपि नाकुर्वन्निति. पांथेष्विति यस्य च भावेन
भावलक्षणमिति सप्तमी(l.1). पांथाः कथामत्यजन्शृङ्गाद्युत्स्वकुर्वन्निति
तात्पर्यम् ॥ 12.
पवित्रिता वीररसेन धात्री
[L1
राज्ञस्सेना दिशस्सर्वा उच्चैश्श्रवस्सर्गप्रकृ(l.6)तीरिव व्यधात् हताः
प्रसादीकृता नष्टाश्चेतेभ्यश्शिष्टाः प्रविष्टास्तौरुष्कास्तुरङ्गमा यस्यां(l.7) सा .
तुरुष्कवाहापहरणात्तत्सेना दिशोजैषीदिति भावः . उच्चैश्श्रैवा एक एव स च
स्वर्ग(l.8) एवास्ति तत्सेना तु वराश्वबाहुल्याद्बहुसंख्योच्चैश्श्रवस्सहिता दिशो-
पि व्यधादित्यपि श(l.9)ब्दार्थः यद्वा हतादिभ्यश्शिष्टत्वादल्पप्रविष्टाश्वां-
पि दिशोनेकोच्चैश्श्रवस्सहिता...........² ॥ १४.
भीत्या विना कस्य न सुप्रवेश-
मुपक्रमे यत्समरस्य जज्ञे .
भाग्यैर्विना कस्य(l.10) न च प्रवेष्टुं
साध्यं न तत्पार्थिवसैन्यमासीत् ॥
रणारम्भे यद्राजसैन्यं भीत्या विना कस्य न(l.11) सुप्रवेशमभूत् . भीति-
रेव तत्र सैन्ये न प्रविष्टा अन्ये तु सर्वे तुरुष्काः प्रविष्टा इत्यर्थः . तद्रा(l.12)ज-
सैन्यं कस्यापि प्रवेष्टुं साध्यं नासीत्कैर्विना . भाग्यैर्विना . भाग्यान्येव समरान्ते
प्राविशन्नन्ये तु तु(l.13)रुष्का हता इत्यर्थः हत्वा तुरुष्कांस्तद्धनं प्राप्तमिति
भावः . यद्वा निर्भयस्य कस्य न सुप्रवे(l.14)शमिति यज्जनैरज्ञे ज्ञातं
तद्राजसैन्यं भाग्यानि विना कस्यापि न प्रवेष्टुं शक्यमिति ॥(l.15) १५.
एकैकमु ︶ ︶ ︶ ︶ ︶ ︶
︶ ︶ णीर्भर्तुरिवाभिधातुम् .
संप्रोषितै ︶ ︶ ︶ ︶ ︶ ︶
︶ ︶ ︶ ︶ ︶ ︶ ︶ ︶ ॥(l.16) १६.
Lines 17 to end of page missing
तथा परकटकं सिद्धवत्प्रविष्टा इत्यर्थः पौरस्तुत्यमृतपूर्णास्सत्सद्दिनो-
शोभन्त ॥ १७.
1 Ms. °वैश्र°, 2 Ms. lc. on margin. 3 Ms. °धस्वा°. 4 Ms. °भर्त्त°. 5 Ms. °पूर्णास्सां,
षष्ठः सर्गः . १५३
नृपः(l.1) पताकासिचयप्रपञ्च-
सञ्चारिचित्राम्बरभूषणायम् •
अलोठयित्वैव नवीकृतायां
पु(l.2)र्यामपूर्वां श्रियमैक्षते स्म ॥
ध्वजवस्त्राण्येव संचारि चित्रं यस्य तदम्बरं भूषणं य(l.3)स्यांमत
ऍवालोठयित्वैव लोंठनेन विनैव नवीकृतायां नगर्यां स शोभां दृष्टवान्.
शत्रुमारणा(l.4)न्नगर्या नवीकरणम् ॥ 18.
महोत्सवः क्ष्मापतिना सुलग्ने
न ज्ञायते कुत्र स सूत्रितोभूत् .(l.5)
अद्यापि यो रुद्धतुरुष्कयात्रं⁵
तथैव सर्वामवनीमुपास्ते ॥
योद्यापि म्लेच्छानां यात्रां रुद्ध(l.6)वान्सर्वां भुवं च व्याप्नोति स
महोत्सवो राज्ञा कस्मिन्नपि शोभने स्थिरे लग्ने प्रारब्धोभूत् • शोभन(l.7)-
लग्ने एवारब्धस्य स्थैर्योपपत्तेः ॥ • 19•
व्यापादि यस्मिन्नपवित्रसेना
स भूमदेशश्चिरकाल(l.8)मासीत् •
कङ्कालिकाकालिशृगालमाला-
मेलापकोलाहलकेलिरौद्रः ॥(l.9)
सा चाण्डालसेना यत्र मारिता तत्स्थानं कङ्कादिरौद्रं जातम् ॥ 20.
विशुद्धिहेतोरथ तस्य(l.10) राजा
घ्राणेन्द्रियाकास्मिकरौरवस्य •
अकारयत्कीर्त्तिपटीपिनद्ध-
क्षीरोदनशङ्कर(l.11)णं तटाकम् ॥
1 Ms. °लौठं. 2 Ms. °स्यांम°. 3 Ms. ऎवा°. 4 Ms. °लाठ°. 5 Ms. °त्रां.
We take it as an adverb. 6 Ms. °सीत्क°.
२०
१५४ पृथ्वीराजविजयमहाकाव्यम्.
नासाया आकस्मिकरौरवाख्यस्य नरकविशेषस्य . उद्वेगोत्पादक(l.12)-
दौर्गन्ध्यातिशयादिति भावः . तस्य म्लेच्छमारणस्थानस्य शोधनार्थं स
राजा तटाकम(l.13)कारयत् . कीर्त्तिरेव पटी तया पिनद्धस्य क्षीरोदस्य
नग्नंकरणम् . क्षी(l.14)रसमुद्रादधिकमित्यर्थः . अधिकश्च हीनं जयन्पटीं
गृहीत्वा नग्नं करोति . नग्नपलितेत्या(l.15)दिना कर्तर्यर्थे [ख्यु]टि नग्नं-
करणशब्दस्य रूपम् ॥ 21.
तत्तुङ्गमातङ्गघटास्थिकूटा-
वि(l.16)—⏑———⏑—⏑—— •
——⏑ पीडां मनुते स्म भू(l.17)[यः] ॥ 22.
Lines 18 to end of page missing
या पुष्करारण्यविहारशीला
मन्दाकिनीवेन्दुनदी प्रसिद्धा •
भगीरथस्सिन्धुमिव स्रवन्त्या(l.1)
तया तटाकं तमपूरि देवः ॥
पुष्करमरण्यमाकाशं च तत्र संचारिणी या चन्द्रनदी(l.2) गङ्गेव
प्रसिद्धा तया नद्या स राजा तं तटाकमपूरयत् भगीरथस्समुद्रमिव . पूरेर्णि-
जन्तस्य चिण्यपूरिति(l.3) रूपम् ॥ 23.
पयोभिरीशानकिरीटचन्द्र-
पेयूषगर्भैः परि
षष्ठः सर्गः . १५५
'
हरमौलिचन्द्रसुधामिश्रैर्जलैः(l.5) पूरितोपि समुद्रस्सगरपुत्राणामभा-
ग्यवशादिव क्षारत्वं प्राप्तन्. दोषादिवेत्यार्ष:(l.6) पाठः ॥ 24.
पुण्यास्तु तस्याजयराजसूनोः
को वेदितुं तत्त्वगतीरभिज्ञः .
शाकम्भरीचे(l.7)त्रगतोपि यस्य
क्रीडासमुद्रस्स चिवस्सुधायाः ॥
राज्ञः पुण्यानां परमार्थं ज्ञातुं को(l.8) विदग्धः यस्य क्रीडाब्धिः क्षार-
स्थलस्थोपि सुधायास्सद्दशः ॥ • 25.
नाम्ना पितुर्वारु(l.9)णबाणलिङ्ग-
प्रासादमत्तुङ्गमकारयद्यत् .
वारां विवृद्धयर्थमिवागतोसौ
हि(l.10)मालयस्तत्सरसो विभाति ॥
पितुरजयराजस्य नाम्ना स वारुणबाणलिङ्गस(l.11
१५६ पृथ्वीराजविजयमहाकाव्यम्.
प्रतिष्ठाफलं प्राप्तत्. कुतः तुरुष्काणां(1.2) यात्राया विघातात्. यदि हि
स राजा तुरुष्कान्न विहन्यात्ते तुरुष्का देवगृहध्वंसं कु(1.3)र्युरिति भावः॥ 28.
अवीचिभागो मरुभूमिनामा
खण्डो द्युलोकस्य च गूर्जराख्यः .
परी(1.4)क्षणायेव दिशि प्रतीच्या-
मेकीकृतौ पाशधरेण यौ द्वौ ॥ 29.
तयोर्द्वयोरप्युदिते नरेन्द्रं(1.5)
तं वव्रतुस्तुल्यगुणे महिष्यौ .
रसातलस्वर्गभवे इव द्वे
त्रिलोचनं *चन्द्रकलात्रिसर्गे ॥(1.6)
मरुसंज्ञितोवीचिनामा नरकैकदेशस्तथा गूर्जरनामा स्वर्गखण्ड इति द्वौ
खण्डौ प(1.7)श्चिमदिशि वरुणेन परीक्षार्थमिव स्थापितौ यौ तयोर्द्वयोर्मरु-
गूर्जरयोरुत्पन्ने समगु(1.8)णे राज्ञौ वव्रतुः यथा भूतलस्वर्गोत्पन्ने चन्द्रकला-
गङ्गे परमेश्वरं वव्रतुः ॥ 30.
पूर्वा तयो(1.9)र्नाम कृतार्थयन्ती
तं प्राप्य कान्तं सुधवाभिधाना .
सुतानवापत्प्रकृतेस्समाना-
न्गुणानिवान्यो(1.10)न्यविभेदिनस्त्रीन् ॥
तयोर्महिष्योर्मध्यात्पूर्वा ज्यायसी सुधवानामां तं कान्तं लब्ध्वा नाम
सा(1.11)र्थकं कुर्वती त्रीन्पुत्रान्समबलानन्योन्यभिन्नान्गुणभिन्नांश्च प्राप्तत् .
अतस्संभाव्यते प्रकृतेर्गुणा(1.12)न्सत्वरजस्तमांसीवेति . तानि⁴ च समान्य-
न्योन्यभिन्नानि च भवन्ति ॥ '31.
1 Ms. °योद्व°. 2 Ms. °लानिस°. 3 Sic. See p. 109, note 5.
4 Refers to सत्वरजस्तमांसि, not गुणान्.
षष्ठः सर्गः . १५७
एको दशग्रीव इवाच(l.13)कांच
पितुर्विंरुद्धं व्यवहृत्य नाभम् (?) .
अन्येन बाल्येपि न कुम्भकर्ण-
न्यायेन नामाप्यत(l.14)--—॥ 32.
——मधुद्विषोंश-
स्सत्वोन्नतो विग्रहराजनामा .
महाबला(l.15)- 33.
Lines 16 to end of page missing
गूर्जरेन्द्रो जयसिंहस्तस्मै यां³ दत्तवान्सा काञ्चनदेवी रात्रौ च दिने
च सोमं सोमेश्वरसंज्ञम(l.1)जनयत् ॥ 34.
उत्पत्स्यते कंचन कार्यशेषं
निर्मातुका मस्तनयोस्य रामः .
सांवत्सरैरित्युदि(l.2)तानुभावं
मातामहस्तं स्वपुरं निनाय ॥
कंचित्कार्यशेषं संपादयितुमस्य राम उत्पत्स्यते इ(l.3)ति ज्योतिर्विद्भिः
कथितमाहात्म्यं तं सोमेश्वरं मातामहो निजगरमनयत् ॥ 35.
सर्व(l.4)प्रकारं खलु संमुखोपि
तस्यानुरूपं तनयं विधाता .
विधातुमल्पप्रतिभो यदासी-
त्त(l.5)तो न तं सान्वयतां निनाय ॥
सर्वथानुकूलोपि विधिस्तस्य सदृशं पुत्रं कर्तुमनभिज्ञो(l.6) ध्रुवं यदा-
सीत्ततो राजानं सपुत्रंतां नानयत् ॥ 36.
1 Is it नाकम् ? 2 Ms. यान्द°. 3 Ms. सोयं lc. on top margin.
१४८ पृथ्विराजविजयमहाकाव्यम्.
चतुर्मुखत्वे सदृशे विरिञ्चा-
द्विष्णोर्(1.7)लूनाननताविशेषः ।
देवस्तु पञ्चाननताविशिष्ट-
ष्षडाननत्वं गुहमानिनाय ॥ ३७.
प्र(1.8)कृष्टतामभ्यधिकामतोपि
स्रष्टुं पटुर्न ध्रुवमीश्वरोपि ।
अतः कुमारं विदधे कुमार(1.9)-
मैच्छन्न तन्न्यूनसमान्ववायम् ॥
विरिञ्चाद्ब्रह्मणस्सकाशाद्विष्णोस्सकाशात्पंचा(1.10)ननत्वेन महेश्व-
रोधिकः स च स्वपुत्रं कुमारं षण्मुखत्वमनयत् अतोपि कुमारादपि प्र-
(1.11)कर्षं कर्तुमीश्वरोपि ध्रुवमसमर्थः अतः कुमारं कुमारमेव कृतवान्
कुमारादपि कु(1.12)मारपुत्रस्य विशेषकरणसामर्थ्याभावादीश्वरः कुमारं
ब्रह्मचारिणं कृतवानित्यर्थः(1.13) महेश्वरंः कुमारं न्यूनोथवा समोन्ववायः
पुत्रो यस्य॑ नैच्छत् ॥ ३८.
इत्थं विविञ्चन्नृपतिस्सम(1.14)- ३९.
Lines 15 to end of page missing
कर्मसु धूर्जटीमीश्वरम् ॥ ४०.
भविष्यतानेन विमानदातु-
र्हर्तुं धनेशान्नरयानलज्जाम्(1.1) ।
रामस्य पित्रा दुहितुस्सुतेन
सुतेजसा नन्दतु चक्रवर्त्ती ॥
धनेशाद्वैश्रवणान्नरयाने(1.2)न नरस्कंधाधिरोहणेन लज्जां हर्तुं त्या-
जयितुमिव विमानदातुः पुष्पकाख्यविमान(1.3)प्रतिदायिनो रामस्य पित्रा
1 Ms. ॰रंकुं 2 Add वाहनं.
षष्ठः सर्गः . १५६
भवित्रा भविष्यतानेन दौहित्रेण चक्रवर्त्ती तुष्यतु ॰ जहातिरन्तर्भावि(l.4)-
तए्यर्थः ॥ 41.
श्रुत्वेति दौहित्रमुखारविन्द-
लावण्यलक्ष्मीसहवासमत्ताम् ॰
विधाय(l.5) दृष्टिभ्रमरीं कथञ्चि-
त्तत्संमुखीं भूपतिराबभाषे ॥
दौहित्रमुखपद्मलाव(l.6)ण्यसमृद्धिसहवासेन मत्तां दृष्टिभ्रमरीं तस्य
दैवज्ञस्य संमुखीं कृत्वा राजावदत् ॥(l.7) 42.
अश्रौषमेवं बहुधा बहुभ्य-
स्सन्देहगेहं च मनो ममाभूत् ॰
तदस्ति किञ्चिन्नहि जी(l.8)वलोके
प्रियंवदानां न यदीरणीयम् ॥
बहुभ्यः सकाशाद्बहुधा चाहमेवं श्रु(l.9)तवान् मम मनस्तु सन्देह-
स्थानमेवाभूत् चाटुकाराणां न किञ्चिदवाच्यं यतः ॥(l.10) 43.
षाड्गुण्यमन्त्री परमार्थतस्तु
प्रजापतेस्त्वं³ प्रतिभाससे मे ॰
ललाटपट्टेसु कृतो नृ(l.11)णां वा
त्वं तेन लिप्यक्षरसूत्रधारः ॥
विधातुष्षाड्गुण्ये सृष्टिविषये व्यवहारे मन्त्री(l.12) उपदेष्टा त्वं भवसि ॰
त्वमेव प्रजापतेस्सुखदुःखलेखनोपदेशं करोषीत्यर्थः य(l.13)द्वा प्रजापतिना
त्वं लिपिलेखकरः कृतः ॰ त्वमेव लिखसीत्यर्थः ॥ 44.
आज्ञां त्वदी(l.14)[यामनुवर्त्तमानः]
शरीरभाजां प्रसवप्रसङ्गे ॰
1 Ms. भत्रा. 2 Ms. ॰यंचिं॰. 3 Ms. ॰तेः त्वं.
१६० पृथ्विराजविजयमहाकाव्यम्.
ज्योतिंषि तीक्ष्णांशुमुखान्यमूनि(l.15)
―――――॥
[ग्रा]शिनां जन्मकाले त्वदाज्ञानुसारं सूर्याद्मि(l.16)·············
···णवन्मुमोच(l.17) 45.
Lines 18 to end of page missing
भरणान्तराणि ॥
संशय एव वंशस्तद्भेदं कृत्वा मुक्तारत्नसमुुक्तं वचनं सूच्यता(l.1)मुच्य-
तामतः यथा सन्देहो न भवति तथा कथयेत्यर्थः . यद्वा व्यादाय . स्वपित्या-
दिष्वि(l.2)दं द्रष्टव्यम् . मम हृदये स्थितेन येन भूषणान्तराणि त्याज्यत्वं
प्राप्नुयुः. त्वद्वचनमेव(l.3) भूषणीभूतं हृदि धारयामीत्यर्थः ॥ 46.
सन्देहबीजमाह ॥
इदं हि तद्व्योमनि चित्रकर्म(l.4)
मरुस्थले श्रीसह