पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 177, कुल 330 में से
संदर्भ में पढ़ें१४८ पृथ्विराजविजयमहाकाव्यम्.
चतुर्मुखत्वे सदृशे विरिञ्चा-
द्विष्णोर्(1.7)लूनाननताविशेषः ।
देवस्तु पञ्चाननताविशिष्ट-
ष्षडाननत्वं गुहमानिनाय ॥ ३७.
प्र(1.8)कृष्टतामभ्यधिकामतोपि
स्रष्टुं पटुर्न ध्रुवमीश्वरोपि ।
अतः कुमारं विदधे कुमार(1.9)-
मैच्छन्न तन्न्यूनसमान्ववायम् ॥
विरिञ्चाद्ब्रह्मणस्सकाशाद्विष्णोस्सकाशात्पंचा(1.10)ननत्वेन महेश्व-
रोधिकः स च स्वपुत्रं कुमारं षण्मुखत्वमनयत् अतोपि कुमारादपि प्र-
(1.11)कर्षं कर्तुमीश्वरोपि ध्रुवमसमर्थः अतः कुमारं कुमारमेव कृतवान्
कुमारादपि कु(1.12)मारपुत्रस्य विशेषकरणसामर्थ्याभावादीश्वरः कुमारं
ब्रह्मचारिणं कृतवानित्यर्थः(1.13) महेश्वरंः कुमारं न्यूनोथवा समोन्ववायः
पुत्रो यस्य॑ नैच्छत् ॥ ३८.
इत्थं विविञ्चन्नृपतिस्सम(1.14)- ३९.
Lines 15 to end of page missing
कर्मसु धूर्जटीमीश्वरम् ॥ ४०.
भविष्यतानेन विमानदातु-
र्हर्तुं धनेशान्नरयानलज्जाम्(1.1) ।
रामस्य पित्रा दुहितुस्सुतेन
सुतेजसा नन्दतु चक्रवर्त्ती ॥
धनेशाद्वैश्रवणान्नरयाने(1.2)न नरस्कंधाधिरोहणेन लज्जां हर्तुं त्या-
जयितुमिव विमानदातुः पुष्पकाख्यविमान(1.3)प्रतिदायिनो रामस्य पित्रा
1 Ms. ॰रंकुं 2 Add वाहनं.