सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

षष्ठः सर्गः . १५७
एको दशग्रीव इवाच(l.13)कांच
पितुर्विंरुद्धं व्यवहृत्य नाभम् (?) .
अन्येन बाल्येपि न कुम्भकर्ण-
न्यायेन नामाप्यत(l.14)--—॥ 32.
——मधुद्विषोंश-
स्सत्वोन्नतो विग्रहराजनामा .
महाबला(l.15)- 33.
Lines 16 to end of page missing
गूर्जरेन्द्रो जयसिंहस्तस्मै यां³ दत्तवान्सा काञ्चनदेवी रात्रौ च दिने
च सोमं सोमेश्वरसंज्ञम(l.1)जनयत् ॥ 34.
उत्पत्स्यते कंचन कार्यशेषं
निर्मातुका मस्तनयोस्य रामः .
सांवत्सरैरित्युदि(l.2)तानुभावं
मातामहस्तं स्वपुरं निनाय ॥
कंचित्कार्यशेषं संपादयितुमस्य राम उत्पत्स्यते इ(l.3)ति ज्योतिर्विद्भिः
कथितमाहात्म्यं तं सोमेश्वरं मातामहो निजगरमनयत् ॥ 35.
सर्व(l.4)प्रकारं खलु संमुखोपि
तस्यानुरूपं तनयं विधाता .
विधातुमल्पप्रतिभो यदासी-
त्त(l.5)तो न तं सान्वयतां निनाय ॥
सर्वथानुकूलोपि विधिस्तस्य सदृशं पुत्रं कर्तुमनभिज्ञो(l.6) ध्रुवं यदा-
सीत्ततो राजानं सपुत्रंतां नानयत् ॥ 36.
1 Is it नाकम् ? 2 Ms. यान्द°. 3 Ms. सोयं lc. on top margin.

१४८ पृथ्विराजविजयमहाकाव्यम्.
चतुर्मुखत्वे सदृशे विरिञ्चा-
द्विष्णोर्(1.7)लूनाननताविशेषः ।
देवस्तु पञ्चाननताविशिष्ट-
ष्षडाननत्वं गुहमानिनाय ॥ ३७.
प्र(1.8)कृष्टतामभ्यधिकामतोपि
स्रष्टुं पटुर्न ध्रुवमीश्वरोपि ।
अतः कुमारं विदधे कुमार(1.9)-
मैच्छन्न तन्न्यूनसमान्ववायम् ॥
विरिञ्चाद्ब्रह्मणस्सकाशाद्विष्णोस्सकाशात्पंचा(1.10)ननत्वेन महेश्व-
रोधिकः स च स्वपुत्रं कुमारं षण्मुखत्वमनयत् अतोपि कुमारादपि प्र-
(1.11)कर्षं कर्तुमीश्वरोपि ध्रुवमसमर्थः अतः कुमारं कुमारमेव कृतवान्
कुमारादपि कु(1.12)मारपुत्रस्य विशेषकरणसामर्थ्याभावादीश्वरः कुमारं
ब्रह्मचारिणं कृतवानित्यर्थः(1.13) महेश्वरंः कुमारं न्यूनोथवा समोन्ववायः
पुत्रो यस्य॑ नैच्छत् ॥ ३८.
इत्थं विविञ्चन्नृपतिस्सम(1.14)- ३९.
Lines 15 to end of page missing
कर्मसु धूर्जटीमीश्वरम् ॥ ४०.
भविष्यतानेन विमानदातु-
र्हर्तुं धनेशान्नरयानलज्जाम्(1.1) ।
रामस्य पित्रा दुहितुस्सुतेन
सुतेजसा नन्दतु चक्रवर्त्ती ॥
धनेशाद्वैश्रवणान्नरयाने(1.2)न नरस्कंधाधिरोहणेन लज्जां हर्तुं त्या-
जयितुमिव विमानदातुः पुष्पकाख्यविमान(1.3)प्रतिदायिनो रामस्य पित्रा


1 Ms. ॰रंकुं 2 Add वाहनं.

षष्ठः सर्गः . १५६
भवित्रा भविष्यतानेन दौहित्रेण चक्रवर्त्ती तुष्यतु ॰ जहातिरन्तर्भावि(l.4)-
तए्यर्थः ॥ 41.
श्रुत्वेति दौहित्रमुखारविन्द-
लावण्यलक्ष्मीसहवासमत्ताम् ॰
विधाय(l.5) दृष्टिभ्रमरीं कथञ्चि-
त्तत्संमुखीं भूपतिराबभाषे ॥
दौहित्रमुखपद्मलाव(l.6)ण्यसमृद्धिसहवासेन मत्तां दृष्टिभ्रमरीं तस्य
दैवज्ञस्य संमुखीं कृत्वा राजावदत् ॥(l.7) 42.
अश्रौषमेवं बहुधा बहुभ्य-
स्सन्देहगेहं च मनो ममाभूत् ॰
तदस्ति किञ्चिन्नहि जी(l.8)वलोके
प्रियंवदानां न यदीरणीयम् ॥
बहुभ्यः सकाशाद्बहुधा चाहमेवं श्रु(l.9)तवान् मम मनस्तु सन्देह-
स्थानमेवाभूत् चाटुकाराणां न किञ्चिदवाच्यं यतः ॥(l.10) 43.
षाड्गुण्यमन्त्री परमार्थतस्तु
प्रजापतेस्त्वं³ प्रतिभाससे मे ॰
ललाटपट्टेसु कृतो नृ(l.11)णां वा
त्वं तेन लिप्यक्षरसूत्रधारः ॥
विधातुष्षाड्गुण्ये सृष्टिविषये व्यवहारे मन्त्री(l.12) उपदेष्टा त्वं भवसि ॰
त्वमेव प्रजापतेस्सुखदुःखलेखनोपदेशं करोषीत्यर्थः य(l.13)द्वा प्रजापतिना
त्वं लिपिलेखकरः कृतः ॰ त्वमेव लिखसीत्यर्थः ॥ 44.
आज्ञां त्वदी(l.14)[यामनुवर्त्तमानः]
शरीरभाजां प्रसवप्रसङ्गे ॰
1 Ms. भत्रा. 2 Ms. ॰यंचिं॰. 3 Ms. ॰तेः त्वं.

१६० पृथ्विराजविजयमहाकाव्यम्.
ज्योतिंषि तीक्ष्णांशुमुखान्यमूनि(l.15)
―――――॥
[ग्रा]शिनां जन्मकाले त्वदाज्ञानुसारं सूर्याद्मि(l.16)·············
···णवन्मुमोच(l.17) 45.
Lines 18 to end of page missing
भरणान्तराणि ॥
संशय एव वंशस्तद्भेदं कृत्वा मुक्तारत्नसमुुक्तं वचनं सूच्यता(l.1)मुच्य-
तामतः यथा सन्देहो न भवति तथा कथयेत्यर्थः . यद्वा व्यादाय . स्वपित्या-
दिष्वि(l.2)दं द्रष्टव्यम् . मम हृदये स्थितेन येन भूषणान्तराणि त्याज्यत्वं
प्राप्नुयुः. त्वद्वचनमेव(l.3) भूषणीभूतं हृदि धारयामीत्यर्थः ॥ 46.
सन्देहबीजमाह ॥
इदं हि तद्व्योमनि चित्रकर्म(l.4)
मरुस्थले श्रीसह

षष्ठः सर्गः . १६१
इदमपि संशयबीजं ˈहरिर्र्यस्या उ(l.9)दरं समुद्रादपि पवित्रं करिष्यति
तस्याः कस्याः कलावपि पुण्यानि तथाविधानि (l.10) भवन्ति . यैस्संस्करि-
ष्यत्युदरमित्यार्षः पाठः ॥ 48.
आरुह्य संकल्पविकल्पतल्पं
ज(l.11)ल्पन्तमित्थं जयदेवसिंहम् .
स्मित्वा विधातेव स मन्युमूर्ति-
र्मौहूर्त्तिकः स्फूर्तिम(l.12)दित्युवाच ॥
संकल्पाश्च विकल्पाश्च तदेव तल्पमाश्रित्य पृच्छन्तं जयसिं(l.13)हदेवं
मौहूर्त्तिको ज्योतिर्विन्मन्युमूर्त्तिः प्रजापतिरिव किञ्चिद्विहस्योर्जितमेवमवो-
(l.14)चत् ॥ 49.
दशावतारानुकृतिप्रगल्भैः
पुरा मुरारेर्दशभिशिरोभिः .
दिङ्मात्र(l.15)- 50.
[Lines 16 to end of page missing] (**45)
– – – – तस्थे .
तामुज्जहार त्वरितं स दृष्टिं
सर्वसहां कोसलराजपुत्र्याः ॥
शोकाग्निना पीतेपि वृ(l.1)द्धिं गच्छति बाष्पसमुद्रे बुडितां यासीत्तां
कौसल्याया दृष्टिं सर्वसहां शोकसां स उद्धृ(l.2)तवान् सर्वसहां भूमिं च
हरिरुद्धृतवान् ॥ 51.
जीमूतकेशत्वदशोपपन्न-
सौदामिनी(l 3)सोदरपिङ्गलिम्ना ,
ममार्ज्ज बाष्पाम्बुनिपातपाण्डू
पादौ जटानां पटलेन चास्याः ॥(l.4)
1 Comm. जयसिंहदेवं. 2 Ms. समन्त°. 3 Ms. मूर्त्तिः lc. under 1 13.
4 Ms. किंचि°. 5 Ms. °त्राः. 6 Ms. वृत्वित्वा. 7 Restore शोकाग्निपीतेपि विवर्धमाने
बाष्पाम्बुधौ या बुडितेव तस्थे । 8 Ms. °सुत°. See pp. 18 and 42, note 2. 9 Ms. °मनी°.
२१

१६२ पृथ्वीराजविजयमहाकाव्यम्.
जीमूतकेशत्वदशयोपपन्नसौदामिनीसोदरः पिङ्गलिमा यस्य तेन विद्यु-
त्कपिशे(l.5)नेत्यर्थः . बाष्पजलपाण्डू मातुः पादौ रामो जटापटलेन शोधि-
तवान् प्रणामं कृ(l.6)तवानित्यर्थः ॥ 52.
रामप्रणामानुपदं विमुक्तं
प्रणम्य सुग्रीवविभीषणाभ्याम् .
त्त(l.7)त्पादमेकं पवमानसूनु-
रन्यं सुमित्रातनयो ववन्दे ॥
रामस्य प्रणामानन्तरं सुग्री(l.8)वविभीषणाभ्यां प्रणम्य मुक्तमेकं
कौसल्यायाः पादं हनुमानन्यं लक्ष्मणो वन्दि(l.9)तवान्॥ 53.
त्वं मे महर्षे बहुमानभूमि-
रलं प्रणम्येति ससंभ्रमायाम् .
पादौ ज(l.10)नन्त्यामपसारयन्त्यां
जटाधरो लक्ष्मण इत्युवाच ॥
तपोधन मम त्वं बहुमानपात्रं भ(l.11)वस्यतः प्रणम्याल॑ मा प्रणामं
कृथा इति संभ्रमसहितायां मातरि पादौ संवृ(l.12)ण्वत्यां सत्यां लक्ष्मण
एवमवोचत् ॥ 54.
आर्यस्य कान्तारविहारकेला-
वहं सदांनु(l.13) ‿ ‿ — — — +
समन्वयातः क्षणमेव दृष्ट्या
विधीयतां मातरनुग्रहो मे ॥
आर्य(l.14)··············मनया दृष्ट्या हे मातः(l.15) 55.
[Lines 16 to end of page missing] (*)
1 Ms. °सुपं, 2 Ms. °पा°; °दा° on margin. 3 Ms. °ष्ट्वा .

षष्ठः सर्गः . १६३
ज्येष्ठानुरागाख्यनिधानकोशे
मुद्रानिवेशो निहितो हृदीव ॥
ततः कौसल्याया हृदि सू(1.1)क्ष्मं मेघनादपातितशक्तिव्रणचिह्नं² लक्षि-
तम् . अतस्संभाव्यते श्रीरामविष(1.2)ये स्नेहनामनिधिकोशे न्यस्तो मुद्रा-
निवेश इव ॥ 56.
किमेतदित्याकुलया स्पृशन्त्या
पृष्टो(1.3)पि मात्रा न स किंचिदूचे .
द्रोणाचलेन्द्रोद्धरणोद्धुरोपि
नेमे च लज्जातिभरात्कपीन्द्रः ॥(1.4)
व्रणं स्पृशन्त्या व्याकुलया मात्रा किमेतदिति पृष्टोपि लक्ष्मणो न
किंचिदुक्तवान् व्रण(1.5)रोॅपणौषध्यानयनार्थं द्रोणाख्यपर्वतोद्धरणेनोद्धुरोपि
हनुमांल्लॅज्जाभरादनमत्(1.6) मयि सत्यनेनायोधीति लज्जाभरः ॥ 57.
यथाभवत्तस्य च शक्तिपातो
धन्वन्तरिर्वायुसु(1.7)तो यथा च .
वितत्य रामेण तथा समस्तं
मातुः पुरस्तात्प्रतिपाद्यते स्म ॥
लक्ष्मणस्य श(1.8)क्तिपातो यथाभूद्यथा च हनुमान्विशल्यीकरणे
धॅन्वन्तरीरासित्तथा स प्रकारस्स(1.9)मस्तं विस्तरेण मातुरग्रे रामेण
प्रतिपादितः ॥ 58.
स्तुतिर्जगत्प्राणसुतस्य के(1.10)यं
जागर्ति यत्त्राणयितुं जगन्ति .
हरिस्तथा भाति न कौस्तुभेन
यथामुना लक्ष्मण(1.11) लक्ष्मणा त्वम् ॥
1 Ms. सूक्ष्मं लक्ष्मणस्य crossed after ˚हृ. 2 Ms. ˚ह्नो˚. 3 Ms. ˚रपयो˚.
4 Ms. ˚माल्ल˚ 5 Ms. धान्व˚. 6 Ms. ˚न्वरि˚. 7 Ms. ˚तम्. 8 Ms. ˚गन्ति य˚.

१६४ पृथ्वोराजविजयमहाकाव्यम्
जगन्ति प्राणयतीति जगत्प्राणो वायुस्तस्य सुतो हनुमांस्तस्ये(l.12)यं
का स्तुतिः यज्जगज्जीवयितुं हनुमाञ्जगार्ति . एतेन न केवलं हनुमता
ल(l.13)क्ष्मणः प्राणितो यावज्जगन्त्यपि लक्ष्मणवत्त्राणयतीति प्रतिपादितम्
लँक्ष्मणे प्राणिते रामस्यै......कार्याणा(l.14)............जीवनार्थं य-
............(l.15) 59.
Lines 16 to end of page missing
मंनुजस्य सेवा-
मनुस्मरन्वाक्यमिदं बभाषे ॥
लीलयात्तो मनुष्यभावो येन स देवो रामः(l.1) कौसल्योक्तमेव श्रुत्वा-
न्येन कर्तुमशक्यां लक्ष्मणस्य सेवां स्मरन्निदमवोचत् ॥ 60.
तिललम् ॥(l.2)
मातर्मुषा प्रार्थयसे त्वमेवं
भवादृशीनां नहि तंत्वमेतत् .
देवी भवानी किमु कात्ति(l.3)केय-
गाङ्गेययोः किञ्चिदवैति भेदम् ॥
हे मातस्त्वमेवं मृषा याचसे त्वादृशीना(l.4)मेतन्न युक्तं रामो मदीयो
लक्ष्मणोऽन्यदीय इति यतो गौरी कुमारहेरम्बयोर्भेदं न जा(l.5)नाति ॥ 61.
आशंसनीयं तु ममेदमस्ति
यथाग्रजं मामनुजस्सिषेवे .
तथाहमस्या(l.6)नुजतामुपेत्य
सेवाविधानात्कृतनिष्क्रयः स्याम् ॥
1 Ms. °ब्जगर्ति. 2 Ms. lc. on margin. 3 Restore देवः स लीलान्तमनुष्य-
भावो मात्रोदितं वाक्यमिदं निशम्य. । अनन्यकार्यामनु° (?) 4 Comma युक्तं.

१६६ पृथ्वीराजविजयमहाकाव्यम्.
अनेन भोगेन मम शोभा नास्ति अतोऽहमीदृशं भोगित्वं सर्पत्वं(l.1)
भोगभाक्त्वं च प्राप्नुयाम् येन त्वत्पादपवित्रां भूमिं स्प्रष्टुं सहस्रं मूर्ध्नां शिरसां
फणानां(l.2) च यस्य स स्यामित्यादरद्योतनम्. शेषो भवेयमित्यर्थः ॥ 66.
इत्थं महीनाथ कथानवद्या
पु(l.3)राभवद्या पुरतो जनन्याः .
स्नेहानुबन्धादपि दाशरथ्योः
पफाल तस्यां प्रथमस्य वाक्यम् ॥(l.4)
हे राजन्मातुरग्रे या कथा पूर्वमभूत्तस्यां कथायां प्रथमस्य रामस्य
वाक्यं फलितम् ॥(l.5) 67.
तथा हि रामत्वमुपेयुषः प्रा-
ज्येष्ठस्य निर्वाहिनसाहचर्यः .
कृष्णः कनिष्ठस्स विवेक(l.6)निष्ठ-
स्तथागतत्वं प्रतिपन्न एव ॥
तथा हीत्यादि प्रथमवागुत्पत्तिपरम् हलधरभावं प्राप्त(l.7)स्य ज्येष्ठस्य
भ्रातुर्लक्ष्मणावतारस्य संपादितसाहायकः कनिष्ठः कृष्णो बुद्धत्वं प्राप्तः ॥
(l.8) 68.
अपत्यरत्नद्वयसंनिधान-
निधानभूः कोसलराजपुत्री .
यथा भवित्री विदितं तथा(l.9) मे
बद्धावधानः क्षणमस्तु देवः ॥
कौसल्या द्वौ पुत्रौ यथा सूते तथा मम विदितमतो (l.10)राजा क्षणं
सावधानो भवतु ॥ 69.
चक्षुस्त्रयाणां जगतामवामं
वामं त्रयाणामपि का(l.11)रणानाम् .
1 Ms. °न्थां. 2 Ms. °फली (!) 3 Ms. पत्रौ.

षष्ठः सर्गः . १६७
योयं जयत्यत्रिमुनेरिवाब्धे-
रयोनिजं पुण्यमपत्यमिन्दुः ॥
यस्त्रयाणां (l. 12) जगतामवासंमनुकूलं चक्षुस्तथा ब्रह्मादीनां कार-
णानां वामं चक्षुः तथात्रिमु(l. 13)नेस्समुद्रस्य चायोनिजातमपत्यं चन्द्रोयं
जयति ॥ 70.
मयाष्टधा लोकहिताय चक्रे (l. 14)
कृता तनुष्षोडशधा त्वयैव .
इतीव यो मूर्धनि धारणीयः
परिश्रमज्ञेन महेश्वरेण ॥(l. 15)
मया लोकानां हितार्थं प्रकृतिरष्टधा कृता अनेन चन्द्रेण पुनरेका ....
.........(l. 16) 71.
[Lines 17 to end of page missing] (**47)
पाणौ¹ बिभर्त्ति हृदयेमृतकलशान्तर्बिभर्त्ति² दृग्गोचरे वामनेत्रे³ बिभर्त्ति
चन्द्रं कर्पूरमिव (l. 1) . मृत्युञ्जयस्य कर्पूरोद्धूलितस्यागमेष्वभिधानात् . अन्या
लोकोत्तरा प्रादेशिकी न प्रदेशे ए(l. 2)कद्देशे भवा भूषास्य चन्द्रस्य⁴ भूषणत्वं
भवति किंवाद्वत्नवत् शोभामात्रं समानो धर्मः(l. 3)चन्द्रं⁵मिवेति वान्त्रयः ॥ 72.
लोकार्थमष्टावपि मूर्त्तयोमू-
रतिमकृंष्टा⁶ तु य एष मूर्त्तिः .(l. 4)
कामं च कालं च हि सर्वकालं
यतोर्नुगृह्णात्यविरोधमीशः⁷ ॥
हरस्याष्टौ मूर्तयो भूम्या(l. 5)दयो लोकहितार्था भवन्ति एष यश्चन्द्रा
मूर्त्तिर्भवति सा लोकहितार्थमतिप्रकृष्टा भव(l. 6)ति अतो हेतोरीशः कामं
1 Ms. °वापं. 2 Ms. °न्तर्विं. 3 Ms. °व°. 4 Ms. भूषा crossed after 'स्य. 5 Ms. °न्द°. 6 Ms. °ष्ठा. 7 Ms. सतोव°.

१६८ पृथ्वीराजविजयमहाकाव्यम्.
कालं च विरोधत्यागेनानुगृह्णाति . चन्द्रस्य कामोद्दीपकत्वात् काल(l.7)स्य
तिथिमुखेन व्यवस्थितस्य चन्द्रेणैव संपादितत्वात् ॥ ७३.
अखण्डितेच्छैरपि राजदारैः
प्रि(l.8)यान्तराश्लेषसुखं न लभ्यम् .
इतीव धन्याः प्रति दक्षकन्याः
प्राप्नोति नित्यं नवरूपतां यः ॥(l.9)
राजानो नृपा राजा चन्द्रश्च तत्प्रियाभिरैश्वर्येणाखण्डितेच्छाभिरपि
नवनवदयितालि(l.10)ङ्गनसुखं न लभ्यते इत्यत इव भाग्यवतीस्ताराः प्रति
यो नित्यं नवत्वं गृह्णाति कलानां च(l.11)यादपचयाच्चेति भावः ॥ ७४.
पक्षस्थिते दैत्यगुरौ विवादं
कृत्वा समं वाक्पतिनान्वयार्थे .(l.12)
य एव लेभे विजयप्रशस्तिं
श्रेयान्हि राज्ञः कविपक्षपातः ॥
चन्द्रस्य पक्षे स्थिते शुक्रे(l.13) सति बृहस्पतिना साकं पुत्रार्थे¹ विवादं
कृत्वा य एव चन्द्रो विजयकीर्त्तिं लब्धवान् जी(l.14)…………तः बृहस्पति-
चन्द्रयोर्विवादो जातः क्षेत्रिणो ममायं बुधः पुत्र इ(l.15)-· ७५.
[Lines 16 to end of page missing] (*)
प्रतिबिम्बिता भूर्यत्ततः कलङ्कः कलङ्क इति प्रवाहो जातः . कलङ्कः
कलङ्क इति द्विरुक्ति(l.1)र्वीप्साप्रतिपादनार्था ॥ ७६.
वव्रे बलादाङ्गिरसाङ्गनापि
यदेनमेषोपि कथङ्कल(l.2)ङ्कः .
विहाय देवी दमघोषसूनुं
न रुक्मिणी किं विधुमालिलिङ्ग ॥
¹ Ms. 'र्थेविं'.

षष्ठः सर्गः. १६६
आङ्गिरसो जीवः(l.3) तस्याङ्गना रोहिणी साप्येनं बलाद्यद्गत्रेचकमत
सोपि नास्य दोषः शिशुपालं त्य(l.4)क्ता रुक्मिणी विधुं विष्णुं किं नालि-
ङ्गत् ॥ 77.
तुषारगौरादपि जातमस्मा-
त्सुंत्रामरामा(l.5)श्रवणोचितेन .
इन्दीवरेणेव सुरस्रवन्ती-
हृदान्महानीलरुचा बुधेन ॥
शच्या श्रोतृसु(l.6)चितेन . सुरूपत्वादिति भावः . बुधेन महानीलका-
न्तिना यतो हिमशुभ्रादपि जातम्(l.7) यथा शचीकर्णपूरत्वोचितेन नीलो-
त्पलेन गङ्गाप्रवाहात् ॥ 78.
अङ्कस्पृशमित्यादि(l.8) बुधस्तुतिपरमनन्तरकुलकम् ॥
अङ्कस्पृशं यं परभागभङ्गी-
सौभाग्यहेतुं स्मरतेव(l.9) बालम् .
अद्यापि नीलोत्पलचारुनेत्रो
नोत्सृज्यते चन्द्रमसा कुरङ्गः ॥
बुधो नील इत्यतः(l.10) परभागभङ्गया सौभाग्यस्य हेतुमङ्कारूढं यं
बालं स्मरतेव चन्द्रेण मृगोद्याप्यङ्गान्न(l.11) त्यज्यते नीलोत्पलदृष्टिः ॥ 79.
सितेन्दुमुक्तामणिजीवहीर-
भौमार्क रक्तोपलगुम्फि(l.12)तो यः .
आकाशलक्ष्म्‍या इव कण्ठसूत्रे
सहार्कणा नीलमणित्वमेति ॥
सितेन्दू एव(l.13) मुक्तामणी जीव एव हीरो भौमार्कवेव रक्तोपलौ
1 Ms. °ज्ञी°. 2 Ms. °दशुभ्रा°. 3 Ms. °च्याश्रों°. 4 Ms. °शी°. 5 Ms. °स्प°.
6 Ms. ये.
२२

पद्मरागौ तेषु गुम्फितो यो बुध:(l.14)·······दलक्ष्म्याः कण्ठसूत्रे
इन्द्रनीलभावमेति ॥ ८०.
अल्पो महान्वां महसास्तु(l.15)
Lines 16 to end of page missing
—न्निकटे स्थित इत्यर्थः . पुत्रा पितुः पार्श्वे वसन्तीति तात्पर्यम् . अयं बुध-
श्चन्द्रसकाशाद्व्यवहितो(l.1) यदास्ते तत्तस्मादहं मन्ये इति शेषः . जीवाद्-
गुरोरुपजीव्यादधीत्यायं बुधो भूमिजे भौमे स्वकु(l.2)लजातराजोद्देशेन बुद्धिं
ददाति . शनिः पितुस्सूर्यस्य सकाशाद्व्युत्क्रमेण पार्श्वे वसतीति नी(l.3)त्यु-
ल्लङ्घनप्रकाशनम् बुधस्तु चन्द्रात्क्रमेणैव तिष्ठति किन्तु भौमेन व्यवहितः
तथाविधा(l.4) स्थितिः पुण्यार्थमेवास्य भवति . अयं हि गुरोर्नीतिमधीत्य
भौमस्य प्रतिपादयति भौमेन(l.5) पुत्रेण नीतिर्भुवो

षष्ठः सर्गः . १७१
वरुणश्शीतो रविरुष्ण इति विरोधिनावपि वरुणाकौँ दीक्षितावपि
यामुर्वशीं यद्दृष्ट(l.12)वन्तौ तत्ततो वरुणस्सन्तापमवहत् मित्रस्सूर्यो जाड्यं
जडत्वमवहत् ॥ 83.
साप्युर्वशी प्रा(l.13)प्य तमूर्व्वरीशं
तथा च नोजनम्वशंवदाभूत् .
अस्याश्शची पामरकामिनीव
यथा न सं(l.14)-------- ॥
पुरूरवसं प्राप्य साप्युर्वशी तथा कामातुराभूद्यथा पामरस्त्रीव(l.15)
...............दित्यर्थः ॥ 84.
बहुष्वैतीं---------(l.16), 85.
[Lines 17 to end of page missing] (*)
.........इन्द्रसमं पुत्रमिच्छतस्तस्य यैस्तपोभिर्हेतुभिः कुशिकस्य
गाधिनामेन्द्रस्स्वयमेव जातः ॥ 86.
धर्तुं धरित्रीं(l.1) नवमो बभूव
नगाधिराजस्स न गाधिराजः .
ऐन्द्रीषु यस्येष्टिषु शश्वदासी-
देकाश्रयस्त(l.2)र्पकंतर्प्यभावः ॥
स गाधिराजो भुवं वोढुं नवमकुलपर्वत आसीत् काँक्कासीदेवेत्यर्थः
यद्वा स गाधिराजो नासीत्किं तर्हि नवमो नगाधिराजः इन्द्रयागेषु यस्य
तँ(l.3)र्पकंतर्प्यत्वं चैकाश्रयमासीत् . स हि शक्रः तर्पकश्च स एव स एवे-
न्द्रयागे तर्पणीयः ॥(l.4) 87.
1 Ms. यामू°. 2 Restore °तेषु. 3. Ms. यै° to °भिः lc. on margin.
4 Ms. न written below आ°. 5-5 Ms. lc. on top margin. 6 Ms. तत°.

१७२ पृथ्वीराजविजयमहाकाव्यम्.
को वेद तद्गाधिसुवस्स तत्वं
दधत्पुरस्तादपि राजतत्वम् •
अपारतो यंस्तपसः प्रभावा-
त्सुव(l. 5)र्णतां भावनयोपनीतः ॥
तत्तस्माद्धेतोर्गाधिभुवो विश्वामित्रस्य माहात्म्यं को जानाति यत्पू(l. 6)र्वे
राजतत्वं क्षत्रियभावमपि दधत्तपंसोपारात्प्रभावाद्धेतोर्भावनया सुवर्णतां शो-
भन(l. 7)वर्णत्वं ब्राह्मणत्वं नीतः . क्षत्रियोपि हि विश्वामित्रस्तपोमाहात्म्या-
द्ब्राह्मणस्संपन्नः . अथ च(l. 8) यः पदार्थः पारदो न भवति राजतं रूप्यं
सुवर्णं करोतीत्यपि विरोधाभासकः ॥ 88.
निन्ये ह(l. 9)रिश्चन्द्रमधोगतिं य-
दुच्चैः पदं चागमयत्रिशङ्कुम् •
कोपप्रसादौ नृपगोचरौ त-
च्यक्त्वा(l. 10)पि यो राज्यमपेक्षते स्म ॥
विश्वामित्रो हरिश्चन्द्रं यदधः कृतवांस्त्रिशङ्कुं च यदुच्चैः पदं(l. 11) प्राप-
यत्तद्राज्यं त्यक्त्वापि कोपप्रसादावेवापेक्षते स्म नृपाणां गोचरौ राज्ञामेव कोप-
(l. 12)प्रसादावुपयोगिनौ अयं तु राज्यं त्यक्त्वापि निग्रहानुग्रहोद्यतोभूदित्यर्थः
उदारचे(l. 13)तसा तेन तयोरेव राज्यफलत्वगणनादिति भावः ॥ 89.
स चक्रवर्त्ती भरतोपि जज्ञे(l 14)
――――――न्दुगोत्रे .
राज्याभयं कर्तुमनेकवारं
पुलोमजा यस्य पुरे ययाचे ॥
स ह(l. 15)-
. 90,
Lines 16 to end of page missing
1 Ms. येतं . 2 Ms. °परी° . 3 Ms °तपं written above °त्सुवं.
4 Doublet of पारत, See l. 7. 5 Ms. °चरो.

षष्ठः सर्गः . १७३
'ख्यानकरं जघान .
इतीव यद्दोर्वनदृप्तदन्ती
रामेण रामो दमयांबभूवे ॥
मम पूर्वपुरु(l.1)षस्सहस्ररश्मिः तस्य मम गणनकरं कार्तवीर्यमयं हत-
वानित्यस्मादिव कार्तवीर्यभुज(l.2)वनमत्तगजः परशुरामश्रीरामेण दमितः .
मत्तश्च हस्ती दम्यते ॥ ९1.
द्वाभ्यां शताभ्यां स क(l.3)रैररौंसी-
त्पंचाशता च ध्रुवमेकमेकम् .
नैकोपि पादश्चलति स्म येन
धर्मस्य तस्मिन्परिरक्ष(l.4)ति क्ष्माम् ॥
पञ्चाशदधिकशतद्वयसंख्यैः करैस्सहस्रबाहुः कार्तवीर्यो धर्मस्यैकमेकं
पादं त(l.5)द्ध्रुवं रुद्धवान् यतस्तस्मिन्भुवं पालयति धर्मस्यैकोपि पादो
नाचलत् ॥ 92.
कलिर्जजागा(l.6)र चुरिक्रियायां
कृतस्य दत्ताभय एष राजा .
तेनास्य पृथ्वीवलयप्रसिद्धिं
प्राचुर्यमूहै(l.7) कलिचुर्युपाख्या ॥
कार्तवीर्यस्य कलिचुरिरिति नाम प्रसिद्धं तत्र कविरन्वर्थतामूहते(l.8).
चुर स्तेये इत्यस्य धातोः क्रिया चुरिक्रिया तस्यां हरणोर्थात्कृतयुगस्य क-
लिरुद्यतः . कार्त(l.9)वीर्यैः कृतस्य दत्ताभयः तेन ध्रुवं कलिचुरिसंज्ञा राज्ञो
भूमण्डले प्रसिद्धिमवहत् ॥(l.10) 93.
तदीयमेवाभरणायमानं
क्रमागतं नाम समुद्वहन्तः .
1 Read संख्या°. 2 Ms. °रौ°. 3 Ms. पादं lc. on margin. 4 Ms. प्रापुर्यं°.
5 Ms. तन्ना° written under दत्ता°. Is it तत्र दत्ताभयः ?

...Wait, what aboutकलिघंमकाले? Could it be कलिधर्मकालेwhere MS hasघंमor something? Wait, look at line 14:[Lines 18 to end of page missing] (*)Then:माण्याँबयास्स साहसिकस्तपस्विने...Wait, couldमाण्याँबयास्सbe...माण्यां नयास्स...? Wait, could the footnote be: 1 Ms. °थ°.Wait, where is1? Look at line 16: दत्वा(l.1) सर्वां भूमिं जेतुं प्रस्थितवान् ॥Look at(l.1)! That is (l. 1)of the next page/leaf of the manuscript! Wait, before(l.1)there isदत्वा(l.1): wait, is that (l.1)or(1.1)? In the image, the font for letter lis italicl: (l.11), (l.12), (l.13), (l.14), (l.15), (l.16), (l.17), (l.1), (l.2), (l.3). Wait, in दत्वा(l.1

षष्ठः सर्गः. १७५
स्तत्वं न जानामि यतोऽहं दैवज्ञस्तत्प्रतापस्तु दैवमप्य(1.4)तिवर्तते . यावान-
स्य प्रतापस्तावान्वाङ्मनसातिक्रान्त इत्यर्थः ॥ 98.
यत्कार्मुकारोपणमात्र(1.5)यत्न-
सापेक्षमाशाविजयं विजानन् .
स भाग्यसंपत्परिवार एव
बभ्राम सामन्तशिखाम(1.6)णिर्गाम् ॥
धनुष्कर्षणमात्रप्राप्यं दिग्विजयं जानन्स राजा भाग्यसम्पदेव परिवारो
यस्य(1.7). केवल इत्यर्थः . स चक्रवर्ती भुवं यदभ्रमत् ॥ 99.
विधास्यतस्साहसमानुचर्या-
च्छायामपि च्छे(1.8)तुमिवास्य रात्रौ .
विरोचने चुम्बति पश्चिमायां
पपात जातु त्रिपुरी पुरस्तात् ॥
रात्रौ साहसं(1.9) करिष्यतोस्य च्छायामप्यनुचरत्वाच्छेत्तुं वारयितुमिव
[L15

१७६ पृथ्वीराजविजयमहाकाव्यम्
क्षीणां क्षपाकान्तमशुद्धपक्षे '
दृष्ट्वां विसृष्टै(l.14)रिव सागरेण .
प्रदीपितॆजोवधदन्दशूकै-
रमूच्यत द्यौर्जलदैरकस्मात् ॥
कृष्णपक्षे क्षी(l.15)- 102.
Lines 16 to end of page missing
कम्पितुमारम्भमकरोत् ॥ 103.
आजनमनस्साहसँसादरत्वा-
त्स साहसस्यैव शुभं निमित्तम् .(l.1)
यथार्थनामा पिशुनं विदित्वा
घने घनं गर्जति नन्दंति स्म ॥
नित्यं साहसकरणात्सार्थकनामा स(l.2) राज्ञ तन्निमित्तं बाहुकम्पं '
साहसस्यैव सूचकं ज्ञात्वा घनं कृत्वा मेघे गर्जति सति साहसि(l.3)को
राजातुष्यत् ॥ 104.
ततो घनानां निचयाैनिशातै-
र्निःशेषतस्तारकधाम्नि शान्ते .
निशातनुत्वान्नि(l.4)शशामं नादं
निकाममायाविनमेष वीरः ॥
निबिडैर्मेघैस्तारकाणां धाम्नि स्थाने तेजसि(l.5) वा शान्ते निशावसा-
नादत्यर्थं विस्तीर्णं शब्दमेष वीरश्श्रुतवान् ॥ 105.
अथ ध्वनेस्संमुख(l.6)मस्य॑ गत्वा
भयानकेनेव रसेन पूर्णाम् .

  • 1 Ms. °ष्ट्या. 2 Is it °पते° ? 3 Ms. °हसाद°. 4 Ms. °तिनन्द° lc.
    on top margin. 5 Ms. बजति. 6 Ms. °शस्र नां°, 7 Ms. °मप्यं°,

षष्ठः सर्गः . १७७
श्मशानेनामानमसौ गभीरां
पुर्यांस्त्रिपुर्याः परिखां(l.7)मपश्यत् ॥
ततोस्य शब्दस्य संमुखं गत्वासौ भयानकेन रसेन पूर्णामिव त्रिपुरी-
नामनग(l.8)रीसम्बन्धिनीं श्मशानाख्यां परिखामपश्यत् ॥ * 106.
प्राणांन्नीति कुलकम् ॥
प्राणांन्निहो(l.9)त्रीकृतकालकार्म-
पुरत्रयाख्याहुतिपंचकस्य .
तृप्तिर्नृकीटेन मयापि का ते
ब्रह्माण्ड(l.10)कोटीशतघस्मरस्य ॥
आकृष्टः पाशो यैस्तैः कालदूतैरिव खड्गहस्तैः पुरुषैः केशेषु गृ(l.11)-
हीत्वा महाकालायतनं प्रवेश्यमानमेवं क्रन्दन्तं स राजा ददर्शोति सम्बन्धः .
ग्रस्तकाल(l.12)कामतिपुराख्यपंचाहूतेस्तथा ब्रह्माण्डकोटीशतग्रासिनस्ते नृणां
मध्ये कीटेन मया(l.13) का तृप्तिः ॥ 107.
सर्वाङ्गशुद्धस्य सुधारुचेर-
प्यालोकयामो हृदि कालिमानम् .
त्रैलोक्यकर्णो(l.14)- 108.
Lines 15 to end of page missing
शेषोपि बलैकरूपो
गोरक्षणं साहसिकः करोति .
तव दर्शनं यद्यप्राप्तं तत्तर्हि सहसा बले(l.1)न करणेन त्वयैव योग-
णीत्वं प्रापितः स प्रकाश्यताम् यो शेषो न शेषोपि बलैकरूपो बलसहायो
हलधरंसमोयं साँह(l.2)सिको गोरक्षणं भूमिरक्षणं करोति ॥ 109.
1 Ms. स्मशा°. 2 Ms. पणिपां°. 3 Ms. प्राजा°. 4 Ms. °कायं. 5 Ms. °नैकी°.
6 The verse referred to by this part of comm. is lost in the lacuna at
the end of the page. 7 Ms. °कं to °र° lc. on top margin. 8 Ms.
°मयोयसां°. 9 Ms. गोरक्षणं lc. under 1.3.
२३