पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 180, कुल 330 में से
संदर्भ में पढ़ेंषष्ठः सर्गः . १६१
इदमपि संशयबीजं ˈहरिर्र्यस्या उ(l.9)दरं समुद्रादपि पवित्रं करिष्यति
तस्याः कस्याः कलावपि पुण्यानि तथाविधानि (l.10) भवन्ति . यैस्संस्करि-
ष्यत्युदरमित्यार्षः पाठः ॥ 48.
आरुह्य संकल्पविकल्पतल्पं
ज(l.11)ल्पन्तमित्थं जयदेवसिंहम् .
स्मित्वा विधातेव स मन्युमूर्ति-
र्मौहूर्त्तिकः स्फूर्तिम(l.12)दित्युवाच ॥
संकल्पाश्च विकल्पाश्च तदेव तल्पमाश्रित्य पृच्छन्तं जयसिं(l.13)हदेवं
मौहूर्त्तिको ज्योतिर्विन्मन्युमूर्त्तिः प्रजापतिरिव किञ्चिद्विहस्योर्जितमेवमवो-
(l.14)चत् ॥ 49.
दशावतारानुकृतिप्रगल्भैः
पुरा मुरारेर्दशभिशिरोभिः .
दिङ्मात्र(l.15)- 50.
[Lines 16 to end of page missing] (**45)
– – – – तस्थे .
तामुज्जहार त्वरितं स दृष्टिं
सर्वसहां कोसलराजपुत्र्याः ॥
शोकाग्निना पीतेपि वृ(l.1)द्धिं गच्छति बाष्पसमुद्रे बुडितां यासीत्तां
कौसल्याया दृष्टिं सर्वसहां शोकसां स उद्धृ(l.2)तवान् सर्वसहां भूमिं च
हरिरुद्धृतवान् ॥ 51.
जीमूतकेशत्वदशोपपन्न-
सौदामिनी(l 3)सोदरपिङ्गलिम्ना ,
ममार्ज्ज बाष्पाम्बुनिपातपाण्डू
पादौ जटानां पटलेन चास्याः ॥(l.4)
1 Comm. जयसिंहदेवं. 2 Ms. समन्त°. 3 Ms. मूर्त्तिः lc. under 1 13.
4 Ms. किंचि°. 5 Ms. °त्राः. 6 Ms. वृत्वित्वा. 7 Restore शोकाग्निपीतेपि विवर्धमाने
बाष्पाम्बुधौ या बुडितेव तस्थे । 8 Ms. °सुत°. See pp. 18 and 42, note 2. 9 Ms. °मनी°.
२१