पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 247, कुल 330 में से
संदर्भ में पढ़ें२३० पृथ्वीराजविजयमहाकाव्यम्.
यद्यहमेतस्मात्पृथ्वीराजाद्धनुर्विद्यामाप्नुयां तदा हरान्निर्भयः स्यामित्यत
(l. 9)इव रतेरभिकः कान्तः कामोऽप्यस्य राज्ञोऽनुचरत्वमागतः . शान्तेन चेत-
सा कान्तेन च देहेन जितः ॥ (l. 10) ५७.
प्रथमं शरेण पृथिवीभृतं ततो
भुजयोर्बलेन शिवचापतां गतम् .
किल यो बभञ्ज विशिखाः(l. 11) शिलाभिदो
यदमुष्य संप्रति किमेतदद्भुतम् ॥
अस्य राज्ञश्शराश्शिलाभिदः पाषाणविदा(l. 12)रका यद्भवन्ति तन्ना-
श्चर्यम् यतो यः पूर्वं शरेण क्रौञ्चाद्रिमभिनत् ततो भुजबलेन शिवचापत्व-
(l. 13)मापन्नं पृथिवीभृतं मन्दरपर्वतं बभञ्जास्फोटयत् ॥ ५८.
जविना हयेन विहरन्नलङ्घय-
न्नृप(l. 14)तिर्यदेकमन इत्यदः कियत् .
अतिरंहसोस्य दधते हि वाजिनः
पटुतामनेकमनसां विलङ्घने ॥ (l. 15)
वेगवताश्वेन संचरमाणो राजा यदेकमप्रतिमल्लमन्तःकरणमलङ्घय-
ज्जितवानित्यदः किय(l. 16)द्भवति . न किंचिदित्यर्थः . अस्याश्वा ह्यधिकवेगा
अनेकमनसां जये सामर्थ्यं दधते . चित्तादप्यति(l. 17)वेगास्तदश्वा इत्यर्थः .
अनेकमनोजयशक्तो यदेकमनो जयति तन्न किंचित् एकापेक्षयानेके(l. 18)-
षामधिकत्वात् ॥ ५९.
हयमेष यं यमधिरोढुमिच्छति
प्रसभं प्रयाति स स तार्क्ष्य(l. 19)तामिव .
विशिखं च कुत्रचन यं यमस्यति
प्रतिपद्यते स स महास्त्रतामिव ॥
1 Ms. दृगं lc. under l. 8. 2 Ms. ॰व्यं lc. under l. 10. 3 Ms. ॰शिखां.
4 Ms. क्रोधां. 5 Ms. वाजिनः.