सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 248, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 248

नवमः सर्गः . २३१
यं यमश्वम(l.20)यमारोहति स सोश्वो गरुडत्वं प्राप्नोति यं यं शरं च
क्वापि क्षिपति स स शरो महास्त्रतामिवाप्नोति ॥(l.21) ६०.
अपि यं यमाश्रयति मत्तवारणं
स स सोदरत्वमिव गच्छति श्रियः ।
करपुष्करं नयति यं य(l.22)मप्यसिं
स स नन्दकत्वमवनेः प्रपद्यते ॥
तस्य वाहभूतो हस्ती श्रियस्सोदर ऐरावणस्तद्भावमि(l.23)व गच्छति
तत्करस्थः खड्गो भूमेर्नन्दकत्वं ह्लादकत्वं विष्णुखड्गत्वं च प्राप्नोति ॥ ६१.
[अतिच(l.24*)ञ्चलं य]दतिदूरवर्त्ति य-
द्यदतीव तीक्ष्णमपि कर्कशं च यत् •
मदनस्य² चित्तमिव नावहेलया
सुभिदं(l.1) [ब]भूव न तदस्य धन्विनः ॥
अतिचलत्वादियुक्तं यल्लक्ष्यं तदस्य सुभिदं शोभना भिदा भेदो य-
(l.2)स्य तन्न नाभूद्भूदेवेत्यर्थः . यथा चित्तं कामस्य सुभिदं तच्चातिचलत्वा-
दियसहितम् ॥(l.3) ६२.
सकलाभिरिन्दुवदनाभिरात्मनो
रजनीषु कण्ठगत एव वीक्ष्यते ।
बहुवल्लवीपतिदशोप(l.4)योगिनीं
बहुरूपतां पुनरपि श्रयन्निव ॥
सर्वाभिस्त्रीभिस्स राजा स्वप्ने कृतालिङ्गितो दृश्य(l.5)ते अतस्संभाव्यते
बहूनां षोडशसहस्रसंख्यानां वल्लवीनां गोपीनां पतित्वे उपयुक्तकामने(l.6)-
करूपतां पुनरपि श्रयन्निव ॥ ६३.
1 Ms. सौद°. 2 Ms. समनस्य. 3 Ms. दन्वि°.