सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 246, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 246

नवमः सर्गः . २२६
निरुपप्लवां रचयितुं क्षितिं यतो
दशमावतारकरणीयम्(l.22)[ग्रहीत्] ॥
एतानि नवसंख्यानि पूर्वजन्मभवानि अपि लक्षणान्यवलम्ब्याश्रित्य
राजा तद्बलमवहत् (l.23**64). तत्समबलोभूदित्यर्थः. ततो भूमेरुपद्रवं नि-
वारयितुं दशमावतारे कर्तव्यमग्रहीत् ॥ 54.
अयशस्विताप्रथमबीजकल्पया
विजितस्य रूपविषयान्मनोभुवः .
वदनाधिवासमिलितालिरेखया
कृ(l.2)तपूर्वरङ्गमिव कूर्चलेखया ॥
मुखपद्मसौगन्ध्यागतभ्रमरमालासदृश्या तथा रूपेण जि(l.3)तस्य का-
मस्य अपयशोबीजसदृश्या श्मश्रुलेखया कृतोर्थाद्यौवनस्य कामजयस्य वा
पूर्वरङ्गो(l.4) येन तत् ॥ 55.
अवतंसकुण्डलमरीचिरोचितं
शशिबिम्बतां स्पृशति गण्डमण्डलम् .
परितापस(l.5)म्पदमिवान्यपार्थिवै-
र्जनितां न्यपोहितुमृतस्य तिष्ठतः ॥
भूषणकुण्डलरश्मिभूषितः कपोलः(l 6) चन्द्रकान्तिं धारयति मुखमध्ये
वसतस्तस्यान्यराजैः कृतं तापमिव वारयितुम् ॥ 56.
यदि चापकौ(l.7)शलकलामवाप्नुया-
ममुतो भवेयमभयस्तदीश्वरात् .
इति चेतसा च वपुषा च निर्जितो-
प्यभिको(l.8) रतेरनुचरत्वमाययौ ॥
1 Ms. अपि lc. under l. 23. 2 Ms. ˚न्त्याश्रि˚. 3 Scil. गण्डमण्डलं, (verse 56 ).