पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 245, कुल 330 में से
संदर्भ में पढ़ें२२८ पृथ्वीराजविजयमहाकाव्यम्.
मुखयोर्दिदृक्षुरिव भू (l.10)तपूर्व्यो-
र्दृगभून्मुहुर्मुहुरपाङ्गचुम्बिनी ॥
अस्य दृष्टिनेत्रान्तगामिनी पुनः पुनरभूत् अतः(l.11) संभाव्यते रणार्थं
सिंहतां भूमिधारणार्थमादिसूकरतां भूतपूर्व्योर्मुखयोर्द्रष्टुमिच्छुरि(l.12)व अद्य
भुजद्वये श्रिताम् ॥ ५1.
कपिलस्य पश्चिममुखस्य या रुचिः
कुपितेषु तामपि कदा(l.13)चिदुद्वहत् •
अपरत्र वर्तितुमिवाविचक्षणा
वदनं बलात्परिचुचुम्ब दिव्यता ॥
पंचानन(l.14)स्य विष्णोः कपिलं मुखमित्यागमः . कपिलवर्णस्य प-
श्चिममुखस्य या रुचिराताम्रता ता(l 15)मपि कुपितेषु कोपेषु बिभ्रत्तस्य मुखं
दिव्यता देवतात्मता रमणीयता च बलाच्चुचुम्ब अ(l,16)तस्संभाव्यते
तस्मादन्यत्र स्थातुमकुशलेव ॥ 52.
वदने दृशोश्च वनजश्रिया स्थितं
हरिता च(l.17) वामनतया संहोदरे .
धियि भार्गवत्वमभिरामकृष्णता
चिकुरेषु सर्वविषयेषु बुद्धता ॥(l.18)
वनजं पद्ममुत्पलं च तच्छोभया मुखे दृशोश्च स्थितम् . केशेषु मनो-
हरासितता स्थिता . सर्व(l.19)पदार्थेषु प्रबुद्धता स्थिता . वनजा मत्स्यकूर्म-
वराहाः हरिर्नरसिंहः वामनो बलिजित् भार्गवः परशु(l.20)रामः अभिरा-
मश्श्रीरामः कृष्णो वासुदेवः बुद्धस्सुगतः ॥ 53.
नव लक्षणान्यपि पुरातनान्यमूर्(l.21)-
[न्यवलम्ब्य] भूपतिरधत्त तद्दलम् • '
1 Ms. सिंशितां. 2 Ms. ॰तम्. 3 Ms. ॰खेस्य. 4 Sic. Read कोप्येषु ?
5 Ms. मं॰. 6 Ms. वराहाः lc, under l. 20. 7 Ms. ॰न्यभू॰. 8 Ms. ॰रम्ब्य॰.