पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 233, कुल 330 में से
संदर्भ में पढ़ें२१६ पृथ्वीराजविजयमहाकाव्यम्.
नरनाथकीर्त्तिविभवस्य दूरतो
भवति स्म(l. 21) दिव्यमपि राजमण्डलम् .
अतिमात्रमासदनतो महीभुजां
तदरुन्तुदः कथमपप्लवो(l. 22) विशाम् ॥
दिव्यमपि राजमण्डलं चन्द्रबिम्बं च राजयशसो दूरेभवत् यशसो-
ऽतिसितत्वात् (l. 23**61) तत्ततो दिव्यस्य राज्ञां स्वामिनां मण्डलस्य दूर-
-------------------पतीनां कर्तॄणां विशां कर्मभू[ताना](l. 1)मुपप्लवः कुतः .
अतिमात्रमांसदनतो नैकट्यात् ॥ 13.
बहुलैर्यथैव शबला बलाहकै-
र्गगनस्थली(l. 2) भवति निर्गते तपे .
शरदागमं प्रति तथैव जायते
खलधान्यराशिभिरपह्नुता मही ॥
वर्षा(l. 3)सु यथाऽभ्रैर्द्यौश्शबला भवति तथैव शरदि धान्यैः करौर्भूश्छा-
दिताजायत ॥ 14.
न तदस्ति किंचि(l. 4)दपि यद्ववेष्यते
सुवसीभवज्जनपदासु सीमसु .
गृहमेधिनां तु हृदयान्न्यनिर्वृति-
र्न(l. 5) जहाति भिक्षुमुखदर्शनं विना ॥
सुवसीभवन्तो जनपदा यासु तासु सीमसु सतीषु यद्ववे(l. 6)ष्यतेन्वे-
ष्यते तन्नास्ति . सर्ववस्तूनां सुलभत्वादिति भावः . तुर्व्यतिरेके . भिक्षूणां
याचकानां मु(l. 7)खदर्शनं विनाऽनिर्वृतिश्चित्तदौस्थ्यं गृहस्थानां चित्तानि
नात्यजत् . याचकदुर्भिक्षमेवाभू(l. 8)दित्यर्थः ॥ 15.
1 Ms. °भुजं. 2 Ms. °न्मा° lc. under l. 2. 3 Is it खलु ? 4 Ms. करै°.
5 Ms. °ति° crossed after °न्य°. 6 Ms. जहति.