पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 232, कुल 330 में से
संदर्भ में पढ़ेंनवमः सर्गः . २१५
मेघा ववृषुर्न तत्र सामुद्रमित्यर्थः. गाङ्गसांमुद्रयोर्जल्योर्लक्षणं गुणान्तरं
चायुर्वे(l.11)दशास्त्रेषूक्तम् ॥ ९.
प्रतिमुच्य भूतलजुषो निधीनपि
क्वचिदप्यगम्यत पलाय्य पन्नगैः .(l.12)
प्रतिपद्य दुर्विचरचारचातुरीं
कथमूर्वरामभिभवेयुरुन्दुराः ॥
भूतलस्थान्निधीनपि(l.13) त्यक्त्वा सर्पैः क्वापि गतम्. राज्ञैव निधिपाल-
नादिति भावः । ³पलाय्येति पूर्वकालश्चिन्त्यः. दुर्विचरेषु चारस्तत्र चातुरीमा-
श्रि(l.14)त्याखवो भूमिं कथं खनेयुः ॥ १०.
न स भूतलस्य लव एव विद्यते
नृपतेः प्रतापदहनश्रितो(l.15) न यम् .
अत एव कुत्रचिदपि प्रपद्यते
शलभावली न सुलभावकाशताम् ॥
राज्ञः प्र(l.16)तापाग्निर्यं देशं नाश्रितस्स नास्त्यत एव शलभमाला सु-
लभाश्रयतां न प्राप्ता . शलभा(l.17) हि वह्निना दह्यन्ते ॥ ११.
विततान रात्रिचरचक्रवर्तिनो
दशकन्धरस्य किल यः कुलक्षयम् .(l.18)
स यदा पुनाति पुनरेव मेदिनीं
शुकसारणाद्यभिभवस्तदा कुतः ॥
रक्षःपते रावणस्य(l.19) यो वंशक्षयमकरोत् स एव यदा भूमिमव-
तरति तदा शुकानां सारणादिना संचारादिना(l.20)······भवः कुतः .
शुकसारणौ रावणमन्त्रिणौ च ॥ १२.
- Ms. गङ्गासां°. 2 Ms. पत्र°. 3 Ms. रां to ᵒवः lc. on margin.
4 Ms. दध°. 5 Ms. ᵒश्याभि°. 6 Ms. कूतः. 7 Ms. रामरा° Is it ᵒणौ नाम राव° ?