सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 120, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 120

पञ्चमः सर्गः . १०१
भुवं शाकम्भरीदेव्या सनाथां यदुपासते .
तद्देश्यां(l. 13)स्तेन भयन्ते सर्वे शाकम्भरीश्वराः ॥
शाकम्भरीपालितां भूमिं वासुदेवकुलजा यत्सेवन्ते(l. 14) तत[स्ते शाक]-
म्भरीश्वराः कथ्यन्ते ॥ ५.
उ[त्तुङ्गै] ― ◡ ― [भास्व]न्मित्रैरहितवर्जितैः .
राजचन्द्रैरनन्ता भूः(l. 15) समराजि महोत्सवैः ॥
तै राजचन्द्रैरनन्ता भूमिर्नि···········अपि········(l. 16)-
स्यथैः महान्त उत्सवा येषां तैरूत्तुङ्गैरुदारैः भास्वन्ति दीप्तानि मित्राणि श-
त्रुरहितैः(l. 17). सर्वपदाश्रयः पुनरुक्ताभासः . उत्तुङ्गादीनां सर्वेषां पदानामा-
मुखे पुनरुक्तत्वात् ॥(l. 18) ६.
जज्ञे तदन्वयोदन्वत्सुधांशुर्वसुधापतिः .
सामन्तराजस्सामन्तराजिकैरविणीरविः ॥(l 19)
वासुदेववंशसमुद्रचन्द्रो मंडलेश्वरपङ्किकुमुदिनीसूर्यस्सामन्तराजंनामा
[जज्ञे] (l. 20) . छेकानुप्रासः ॥ छेकाः पञ्चविशेषास्तद्भागुपलक्षितोनुप्रासः
दन्व·············(l. 21)कानामावृत्तेः ॥ ७.
सुषुवे जयराजं तं राजन्तं स जयश्रिया .
यं वीक्ष्याजौ विव[स्वन्तं वस्वन्तं प्रा](l 22*)प राजकम् ॥
विवस्वन्तं सूर्यसमं यं दृष्ट्वा रणे राजगणाश्चन्द्रगणश्च वस्वन्तं तेजोनाशं
प्राप तं जयलक्ष्म्या शो(l. 1)भमानं जयन्तराजनामानं पुत्रं स प्रापत् ॥
यमकं . तुल्यरूपयोस्समुदाययोरावृत्तेः ॥(l. 2) ८.
नितान्तमुन्नतिमतो नेतुमानतिमातताम् .
तेने तेन नतान्नेतुमुरूनतिं मानिना मतिः ॥
1 Ms. °श्याः ते°. 2 Ms. °चन्द्रै°. 3 Ms. °णायि. 4 Ms. °हितेस्र°. 5 Ms. °राजा°.