पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 119, कुल 330 में से
संदर्भ में पढ़ें[ पञ्चमः सर्गः ]
लव(l.3)णाकरमाकर्ण्य स्ववंश्येनावतारितम् •
रथाश्वानामिव प्रीत्यै सप्ताश्वो द्रुतमाययौ ॥(l.4)
स्ववंश्येन वासुदेवेनावतारितमुत्पादितं लवणसमुद्रं श्रुत्वेवाश्व[प्री]त्यर्थ-
मिव सप्ताश्वस्सूर्यो द्रुतमु(l.5)दितंः ॥ 1.
शापं दशरथोप्यापदर्केवंशयो मृगव्यया •
अवाप्तानुग्रहो राजा स पुनः प्राविशत्पु(l.6)रीम् ॥
सूर्यवंश्यो दशरथोपि आखेटिकया शापं प्राप्तं स तु राजा सूर्यवंश्यौ
मृगव्यया(l.7) लब्धप्रसादो नगरीमविशत् ॥ 2.
शाकम्भरीप्रदेशे यदुदगुस्तस्य कीर्तयः •
अतो नोद्वे(l.8)गमाजग्मुः पुलिने लवणोदधेः ॥
शाकम्भरीप्रदेशो मरुभूमित्वात्क्षारः . तत्र यत्त(l.9)स्य यशांसि जा-
तानि अतः क्षारान्धितटे तानि नोद्वेगमागतानि . क्षाररससात्म्यादिति
भावः॥(l.10) 3.
लवणाम्भोनिधेस्स्वामी क्षीराम्भोधिनिवासिनः •
क्रमात्स वासुदेवस्य वासुदेवोन्तिकं ययौ ॥(l.11)
क्षीराब्धिवासिनो वासुदेवस्य निकटं स वासुदेवो राजा गतः . लवणा-
म्भोनिधेः(l.12) स्वामीति समीपगमनौचित्यार्थम् ॥
1 Is the text ˚मुद्ययौ ?. 2. Valmiki, II. 63-64; Raghu, IX. 74-84. .
3 Ms. ˚ष्याम्भो˚. 4 Ms. ˚क्षाम्भोधेः.