पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 121, कुल 330 में से
संदर्भ में पढ़ें१०२ पृथ्वीराजविजयमहाकाव्यम्.
तेन मानिना(1.3) जयराजेनोन्नतिमत उद्धतान्नतिं नेतुं नमयितुं तथा
नतानप्रणमत उन्नतिं नेतुं वर्धयितुं निता(1.4)न्तं मतिः कृता ॥ त्र्यक्षरो वृत्त्यं-
नुप्रासः ॥ नकारतकारमकाराणां त्रयाणामावृत्तेः ॥(1.5) 9.
नतेनतेतेन तेन तेन नतेन ते .
नते नते तेन तेन ते नते न नते नते ॥ 10.
इति स्तुतं कविवरैर्मुख्यं स(1.6)र्वमहस्विनाम् •
प्राप विग्रहराजं स ग्रहराजमिवात्मजम् ॥
नतेति निष्ठान्तं स्त्रीलिङ्गं प्रथ(1.7)मैकवचनं क्रियापदम् . इनतेति कर्म-
पदम् . इतेन तेनेति कर्तृविशेषणम् . तेन तेनेति कर्तृपदम् .(1.8) नतेनेति
च कर्तृविशेषणम् . ते इति तँच्छब्दस्य जसन्तस्य रूपम् . इति पूर्वार्द्धे पद-
विभागः . नते न(1.9)ते इति सप्तम्येकवचनान्तं पदद्वयम् . तेन तेनेति च
तृतीयान्तम् . ते नते इति द्विवचनान्तं कर्तृप(1.10)दम् . नेत्यव्ययम् . नते
नते इति द्विवचनान्तं पदद्वयम् ॥
तेन तेन पुरुषेण कर्त्री ते तव सम्ब(1.11)न्धिनी इनता ऐश्वर्यं नता
सर्वैस्त्वदैश्वर्यप्रणामः कृत इत्यर्थः . पुरुषेण कीदृशेन इता प्राप्ता(1.12) इनता
स्वाम्यं येन तथा नमता . इति प्रथमार्द्धव्याख्येयम् . ते नते कर्त्यों नते
नते न भव(1.13)तः उन्नते उन्नते भवत इत्यर्थः ता लक्ष्मीः इनता स्वाम्यम्
कस्मिंस्तेन तेन हेतुना नते नते प्रण(1.14)मं कुर्वति पुरुषे ॥ सर्वतोभद्रम् ॥
चित्रमिदं खङ्गादिसंनिवेशहेतुवर्णा(1.15)••••••••••॥••••••••••••
•••[कवी]न्द्रैः स्तुत••••••••••स्विषु प्रधानं ग्रहराजं सूर्यमिव स राजा
विग्रह(1.16)राजाख्यं पुत्रं प्रापत् ॥ 11.
यस्य खङ्गाद्विनिर्गत्य गङ्गेयेव हरेः पदात् •
कीर्त्या त्रैलोक्यपावन्या(1.17) लङ्घिता गिरिसागराः ॥
1 Ms. ॰वृत्तीं॰. 2 Ms. नतेनंतति. 3 Ms. लं॰. 4 Ms. ॰श्वानम्र॰.