सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 96, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 96

( 93 )

धुर्यम् पाषाणानाम् । अहो भावगतिराकृतीनाम् । दैवतोद्-
दिष्टानापि मानुषविश्वासतासां प्रतिमानाम् । किन्नु खलु
चतुर्देवतोऽय स्तोमः । अथवा यानि तानि भवन्तु । अस्ति
तावन्मे मनसि प्रहर्षः ।
काम दैवतमित्येव युक्त नमयितुं शिरः ।
विफलस्तु प्रणाम. स्याद मन्त्रार्चितदैवतः ॥ (५)
(प्रविश्य)
देवकुलिकः—भोः ! नैत्यकावसाने प्राणिधर्ममनुतिष्ठति मयि को नु
खल्वयमासा प्रतिमानामल्पान्तराकृतिरिव प्रतिमागृहं
प्रविष्टः ? भवतु, प्रविश्य ज्ञास्ये ।
(प्रविशति)
भरतः—नमोऽस्तु ।
देवकुलिकः- न खलु न खलु प्रणामः कार्यः ।
भरतः—मा तावद् भो !
वक्तव्य किञ्चिदमासु विशिष्ट प्रतिपाल्यते ।
किं कृतः प्रतिषेधोऽय नियमप्रभविष्णुता ॥ (६)
देवकुलिकः— य खल्वेतैः कारणैः प्रतिषेधयामि भवन्तम् । किन्तु
दैवतशकया ब्राह्मणजनस्य प्रणामं परिहरामि । क्षत्रिया ह्यत्र-
भवन्तः ।
भरतः—एवम् । क्षत्रिया ह्यत्रभवन्तः । अथ के नामात्रभवन्तः ।
देवकुलिकः- इक्ष्वाकवः ।
भरतः— (सहर्षम्) इक्ष्वाकव इति । एते ते ऽयोध्याभर्तारः । एते ते
देवतानामसुरपुरवधे गच्छन्त्योऽभिसरीः—
मेते ते शत्रुलोके सपुरजनपदा यान्ति स्वसुकृतैः ।
एते ते प्राप्नुवन्तः स्वभुजबुलजितां कृत्स्नां वसुमती
मेने ते मृत्युना ये चिरमिवसिताश्छन्दं मृगयता ॥ (७)
भोः ! यदृच्छया खलु मया महत् फलमासादितम् । अभिधीयता
कस्तावदत्रभवान् ?