सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 82, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 82

( 81 )
राजा—क्या बिना कुछ कहे ही वन मे चले गए ? (इस प्रकार कह कर घोर
मूर्च्छा मे पड जाते हैं)
मन्त्र—(हडबडाहट के साथ) हे बालाकि, मन्त्रियो से कहो कि महाराज की
हालत असाध्य हो चुकी है ।
कञ्चुकीय—जो आज्ञा । (निकल जाता है)
५) मूल
देव्यौ—महाराज ! समाश्वसिहि समाश्वसिहि ।
राजा—(किञ्चित् समाश्वस्य)
अंगं मे स्पृश कौसल्ये ! न त्वां पश्यामि चक्षुषा ।
राम प्रति गता बुद्धिरद्यापि न निवर्तते ॥ (१८)
पुत्र ! राम ! यत् खलु मया सन्ततं चिन्तितम्—
राज्ये त्वामभिषिच्य सन्नरपतेर्लाभात् कृतार्थाः प्रजाः,
कृत्वा, त्वत्सहजान् समानविभवान् कुर्वात्मनः सन्ततम् ।
इत्यादिश्य च ते, तपोवनमितो गन्तव्यमित्येतया
कैकेय्या हि तदन्यथा कृतमहो निःशेषमेकक्षणे ॥ (१९)
सुमन्त्र ! उच्यतां कैकेय्याः—
गतो रामः प्रियं तेऽस्तु त्यक्तोऽहमपि जीवितैः ।
क्षिप्रमानीयतां पुत्रः पापं सफलमस्त्विति ॥ (२०)
सुमन्त्रः—यदाज्ञापयति महाराजः ।
राजा—(ऊर्ध्वमवलोक्य) अये ! रामकथाश्रवणसन्दग्ध—
हृदयं मामाश्वासयितुमागताः पितरः । कोऽत्र ?
(प्रविश्य)
काञ्चुकीयः—जयतु महाराजः ।
राजा—आपस्तावत् ।
काञ्चुकीयः—यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु
महाराजः । इमा आपः ।
राजा—(आचम्यावलोक्य)
अयममरपते सखा दिलीपो