सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 76, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 76

( 75 )
राजा—कष्टं भोः !
शून्य. प्राप्तो यदि रथो भग्नं मम मनोरथः ।
नूनं दशरथं नेतुं कालेन प्रेषितो रथः ॥ (११)
तेन हि शीघ्रं प्रवेश्यताम् ।
काञ्चुकीयः—यदाज्ञापयति महाराजः । (निष्क्रान्तः)
राजा—धन्या.खलु वने वातास्तटाकंपपरिवर्तिनः ।
विचरन्तं वने रामं ये स्पृशन्ति यथासुखम् ॥ (१२)
(ततः प्रविशति सुमन्त्रः)
सुमन्त्रः—(सर्वतो विलोक्य सशोकम्)
एते भृत्याः स्वानि कर्माणि हित्वा
स्नेहाद् रामे जातबाष्पाकुलाक्षाः ।
चिन्तादीनाः शोकसन्तप्तदेहा
विक्रोशन्तं पार्थिवं गर्हयन्ति ॥ (१३)
(उपेत्य) जयतु महाराजः ।
राजा—भ्रातः सुमन्त्र !
क्व मे ज्येष्ठो रामः—
न हि न हि युक्तमभिहितं मया ।
क्व ते ज्येष्ठो रामः प्रियसुत ! सुतः सा क्व दुहिता
विदेहानां भर्तु'निरतिशयभक्तिर्गुरुजने ।
क्व वा सौमित्रिर्म.म् हतपितृकमासन्नमरणं
किमप्याहुः किं ते सकलजनशोकार्णवकरम् ॥ (१४)
सुमन्त्रः—महाराज ! मा मैवममङ्गलवचनानि भाषिष्ठाः । अचिरा-
देव तान् द्रक्ष्यसि ।
राजा—सत्यमयुक्तमभिहितं मया । नायं तपस्विनामुचितः प्रश्नः ।
तत् कथ्यताम् । अपि तपस्विनां तपो वर्धते ? अप्यरण्यानि
स्वाधीनानि विचरन्ती वैदेही न परिखिद्यते ?
सुमित्रा—सुमन्त्र ! बहुवल्कलालङ्कृतशरीरा बालाप्यबालचरित्रा
भर्तुः सहधर्मचारिणी अस्मान् महाराज च किञ्चिन्नालपति ।