सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 68, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 68

द्वितीय अंक
(१) मूल
(ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः—भो भोः प्रतिहारव्यापृताः ! स्वेषु स्वेषु
स्थानेष्वप्रमत्ता भवन्तु भवन्तः ।
(प्रविश्य)
प्रतीहारी—आर्य ! किमेतत् ?
काञ्चुकीयः—एष हि महाराजः सत्यवचनरक्षणपरो राममरण्यं
गच्छन्तमुपावर्तयितुमशक्तः पुत्रविरहशोकाग्निना दग्धहृदय
उन्मत्त इव बहु प्रलपन् समुद्रगृहके शयानः—
मेरुश्चलन्निव युगक्षयसन्निकर्षे
शोषं व्रजन्निव महोदधिरप्रमेयः ।
सूर्यः पतन्निव च मण्डलमात्रलक्ष्यः
शोकाद् भृशं शिथिलदेहमतिर्नरेन्द्रः ॥ (१)
प्रतीहारी—हा हा एवंगतो महाराजः ।
काञ्चुकीयः—भवति ! गच्छ ।
प्रतीहारी—आर्य ! तथा । (निष्क्रान्ता)
काञ्चुकीयः—(सर्वतो विलोक्य) अहो नु खलु रामनिर्गमन दिना-
दारभ्य शून्यैवेयमयोध्या सलक्ष्यते । कुतः—
नागेन्द्रा यवसाभिलाषविमुखाः सास्रेक्षणा वाजिनो
हेषाशून्यमुखः सवृद्धवनिताबालाश्च पौरा जनाः ।
त्यक्ताहारकथाः—सुदीनवदनाः क्रन्दन्त उच्चैर्दिशा
रामो याति यया सदारसहजस्तामेव पश्यन्त्यमी ॥ (२)
यावदहमपि महाराजस्य समीपवर्ती भविष्यामि । (परिक्रम्या-
वलोक्य) अये ! अयं महाराजो महादेव्या सुमित्रया च
सुदृ सहमपि पुत्रविरहसमुद्भव शोकं निगृह्यात्मानमेव संस्थापयन्ती-