सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 61, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 61

( 60 )
रामः—वने खलु वस्तव्यम् !
सीता—तत् खलु मे प्रासादः ।
रामः—श्वश्रूश्वशुरशुश्रूषापि च ते निर्वर्तितव्या ।
सीता—एनामुद्दिश्य देवतानां प्रणामः क्रियते ।
रामः—लक्ष्मण ! वार्यतामियम् ।
लक्ष्मणः—आर्य ! नोत्सहे श्लाघनीये काले वारयितुमत्रभवतीम् ।
कुतः—
(अनुचरति शशाङ्कं राहुदोषेऽपि तारा)
पतति च वनवृक्षे याति भूमिं लता च ।
त्यजति न च करेणुः पङ्कलग्नं गजेन्द्रं
व्रजतु चरतु धर्मं भर्तृनाथा हि नार्यः ॥ (२५)
(प्रविश्य)
चेटी—जयतु भट्टिनी । नेपथ्यपालिन्यार्यरैवा प्रणम्य विज्ञापयति-
अवदातिकाया संगीतशालाया आच्छिद्य वल्कला आनीताः ।
इमेऽपरा अननुभूता वल्कलाः । निर्वर्त्यतां तावत् किल
प्रयोजनमिति ।
रामः—भद्रे, आनय, सन्तुष्टैषा । वयमर्थिन ।
चेटी—गृह्णातु भर्ता । (तथा कृत्वा निष्क्रान्ता)
(रामो गृहीत्वा परिधत्ते )
शब्दार्थ—स्थैर्यम् = धैर्य को । उत्पादथता = उत्पन्न करने वाले ।
नमयि = उठाया जाये । अवेक्षमाणो = प्रतीक्षा या पालन करने वाले ।
मुञ्चानि = छोड़ा जाए । मातरि = माता कैकेयी पर । हरन्त्याम् = लेने वाली ।
दोषेषु बाह्यम् = दोष या अपराध में लिप्त न होने वाले । हनानी = मारा
जाए । रुचिरं = अच्छा लगने वाला । पातकेषु = महा पापों में । अविज्ञाय =
नहीं जान कर । उपालभसे = डांट रहे है । निवेदितम् प्रकट की है । अप्रभुत्वम्
= अधीशता को । मङ्गलार्थे = अच्छा कार्य करने के लिए । अनया = इस
अवदातिका के द्वारा । नैवाप्तम् = नहीं प्राप्त किया है । नोपपादितम् = नहीं
[कि]या है । व्यवसितम् = सोचा है । श्वश्रू = सास । शुश्रूषा = सेवा । निर्वति-
[तव्या] = की जानी चाहिए । वार्यताम् = मना करो । उत्सहे = समर्थ हूँ ।