प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 60, कुल 296 में से
संदर्भ में पढ़ें( ५७ )
लक्ष्मणः—कथं कथं किमिद नाम ?
क्रमप्राप्ते हृते राज्ये भुवि शोच्यासने नृपे ।
इदानीमपि सन्देहः किं क्षमा निर्मनस्विता ॥ ( १६ )
रामः—सुमित्रामातः । अस्मद्राज्यभ्रंशो भवत उद्योगं जनयति ।
आ., अपण्डितः खलु भवान् ।
भरतो वा भवेद् राजा वयं वा ननु तत् समम् ।
यदि तेऽस्ति धनु.श्लाघा स राजा परिपाल्यताम् ॥ ( २० )
लक्ष्मणः—न शक्नोमि रोषं धारयितुम् । भवतु भवतु । गच्छाम-
स्तावत् । (प्रस्थित.)
रामः—त्रैलोक्यं दग्धुकामेव ललाटपुटसंस्थिता ।
भ्रुकुटिर्लक्ष्मणस्यैषा नियतीव व्यवस्थिता ॥ ( २१ )
सुमित्रामातः ! इतस्तावत् ।
शब्दार्थ—सहसे = सहन करते हो । अक्षोभ्यः = शान्त । क्षोभितः =
चंचल बना दिया गया । रुष्टेन = कुपित बने हुए । शताकीर्णाम् = सैकड़ों
लोगो से घने बने हुए । स्वजननिभृतः = आत्मीयों पर क्षमाशील । मृदुः =
शान्त । परिभूयते = अपमानित होता है । यतः = जिस कारण से । अपूर्वः =
अनोखा । आयासः = खेद । सुमित्रामातः = सुमित्रा माता य य स = सुमित्रा
जिसकी जननी है, वह अर्थात् सुमित्रा का पुत्र = लक्ष्मण । शोच्यासने = दुःख-
पूर्णा आसन या स्थिति वाले । निर्मनस्विता = आत्माभिमान शून्यता
अस्मद्राज्यभ्रंशः = हमारा राज्य से च्युत् होना । भवतः = आपके । उद्योगं =
परिश्रम को । जनयति = प्रेरित करती है । अपण्डितः = विवेकहीन । धनुः-
श्लाघा = धनुर्विद्या में प्रवीणता । रोषं = क्रोध को । दग्धुकामा = जलाने की
इच्छा वाले । ललाटपुटसंस्थिता = भालपर विधमान । भ्रुकुटिः = भौंह ।
नियती = भाग्य की इच्छा । व्यवस्थिता=स्थिर निश्चय वाली ।
अन्वय- अक्षोभ्यः धैर्यसागरः लक्ष्मणः केन क्षोभितः ? रुष्टेन येन
अग्रतः शताकीर्णाम् इव पश्यामि । (१७)
अन्वय—यदि राज्ञः मोहं न सहसे, धनुः स्पृश, दया मा । स्वजननिभृतः
मृदुः सर्वः एवं परिभूयते । अथ न रुचित, त्वं मां मुञ्च । अहं