प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 45, कुल 296 में से
संदर्भ में पढ़ें[Page 42]
सीता—हञ्जे ! त्वं किञ्चिन्न भणसि ।
चेटी—नास्ति वाचा प्रयोजनम् । इमानि प्रहृषितानि तनूरूहाणि
मन्त्रयन्ते । (पुलकं दर्शयति)
सीता—हञ्जे ! आदर्शम् तावदानय ।
चेटी—यद् भट्टिन्याज्ञापयति । (निष्क्रम्य प्रविश्य)
भट्टिनी ! अयमादर्श ।
सीता—(चेटीमुखं विलोक्य) तिष्ठतु तावदादर्शः । त्वं किमपि
वक्तुकामेव ।
चेटी—भट्टिनी ! एवं मया श्रुतम् । आर्यवालाकिः कञ्चुकी
भणति-अभिषेकोऽभिषेक इति ।
सीता—कोऽपि भर्ता राज्ये भविष्यति ।
(प्रविश्यापरा)
चेटी—भट्टिनी ! प्रियाख्यानिकं प्रियाख्यानिकम् ।
सीता—किं किं प्रतीष्य मन्त्रयसे ।
चेटी—भर्तृदारकः किलाभिषिच्यते ।
सीता—अपि तातः कुशली ?
चेटी—महाराजेनैवाभिषिच्यते !
सीता—यद्येवं, द्वितीयं मे प्रियं श्रुतम् । विशालतरमुत्सङ्गं
कुरु ।
चेटी—भट्टिनी ! तथा । (तथा करोति)
सीता—(आभरणान्यवमुच्य ददाति)
चेटी—भट्टिनी ! पटहशब्द इव ।
सीता—स एव ।
चेटी—एकपदे अवघट्टिततूष्णीकः पटहशब्दः संवृत्तः ।
सीता—को नु खलूद्घातोऽभिषेकस्य । अथवा (विहुवृत्तान्तानि
राजकुलानि नाम ।)
चेटी—भट्टिनी ! एवं मया श्रुतम्-भर्तृदारकमभिषिच्य महाराजो
वनं गमिष्यतीति ।
सीता—यद्येवं, न तदभिषेकोदकं मुखोदकं नाम ।