सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 44, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 44

( 41 )

(ततः प्रविशति सीता सपरिवारा)
सीता—हञ्जे ! अवदातिका परिशङ्कितवर्णं दृश्यते । किन्नु खल्व-
वैतत् ।
चेटी—भट्टिनी ! सुलभापराधः परिजनो नाम । अपराद्धा
भविष्यति ।
सीता—नहि नहि, हसितुमिवेच्छति ।
अवदातिका—(उपसृत्य) जयतु भट्टिनी । भट्टिनी ! न खल्वह-
मपराद्धा ।
सीता—का त्वां पृच्छति । अवदातिके ! किमेतद् वामहस्तपरि-
गृहीतम् ।
अवदातिका—भट्टिनी ! इदं वल्कलम् ।
सीता—वल्कलं कस्मादानीतम् ?
अवदातिका—शृणोतु भट्टिनी । नेपथ्यपालिन्यार्यरैवा निवृत्त-
रङ्गप्रयोजनमशोकवृक्षस्यैकं किसलयमस्माभिर्याचितासीत् ।
न च तया दत्तम् । ततोऽहं त्यपराध इतीदं गृहीतम् ।
सीता—पापकं कृतम् । गच्छ, निर्यातय ।
अवदातिका—भट्टिनी ! परिहासनिमित्तं खलु मयैतदानीतम् ।
सीता—उन्मत्तिके ! एवं दोषो वर्धते । गच्छ, निर्यातय
निर्यातय ।
अवदातिका—यद् भट्टिन्याज्ञापयति । (प्रस्थातुमिच्छति)
सीता—हला ! एहि तावत् ।
अवदातिका—भट्टिनी ! इयमस्मि ।
सीता हला ! किन्नु खलु ममापि तावत् शोभते ।
अवदातिका—भट्टिनी ! सर्वशोभनीयं सुरूपं नाम । अलंकरोतु
भट्टिनी ।
सीता—आनय तावत् । (गृहीत्वालंकृत्य) हला ! पश्य, किमिदानीं
शोभते ?
अवदातिका—तव खलु शोभते नाम । सौवर्णकमिव वल्कलं
संवृत्तम् ।