सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 277, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 277

सप्तमोऽङ्कः। [ २६३
[अन्वयः—आर्याभिषेकेण एतत् नष्टकल्मषम् मे कुलं पुनः प्रकाशतां याति
इव सोमस्य उदये जगद् ।।१३।।]
हिन्दी रूपान्तर—
शत्रुघ्न—
अर्थ [श्लोक १३]—आर्य राम का राज्याभिषेक हो जाने से इस कुल के
कलङ्क नष्ट हो गये हैं और यह पुनः प्रकाशमान हो रहा है। जैसे कि चन्द्रमा के
उदय होने पर संसार प्रकाशित होने लगता है ।।१३।।
संस्कृत-व्याख्या—आर्याभिषेकेण आर्यस्य रामस्य अभिषेकेण राज्यारोहणेन
एतद् इदं नष्टकल्मषं नष्टानि अपगतानि कस्मषाणि कलङ्काः यस्य तथाभूतं मे मम
शत्रुघ्नस्य कुलं वंशः पुनः भूयोऽपि प्रकाशतां दीप्तयशस्वितां याति गच्छति। इव
यथा सोमस्य चन्द्रमसः उदय जगत् पुनः प्रकाशते । आर्यरामेण न्यायविधिना यदा
राज्याभिषेकः प्राप्तः, कुलस्य कलङ्कः विनष्टः। पुनरप्यस्य कुलस्य यशः जगति
प्रथितो बभूव इति भावः ॥१३॥
व्याकरण—आर्यस्य अभिषेकेण = आर्याभिषेकेण । अभि + √सिच् + घञ् =
अभिषेक । नष्टानि कल्मानि यस्य तत् = नष्टकल्मषम् । कर्म शुभकर्म स्यति नाशयति
= कल्मष । √सू + मन् = सोम ।
छन्दः—अनुष्टुप् ।
अलङ्कार—उपमा । आर्याभिषेक तथा कुल उपमेय, सोमस्योदय तथा जगत्
उपमान, इव उपमावाचक तथा प्रकाशित होना साधारण धर्म है । पूर्णोपमा है ।
रामः—वत्स लक्ष्मण ! अधिगतराज्योऽहमस्मि ।
लक्ष्मणः—दिष्टचा भवान् वर्धते ।
(प्रविश्य)
काञ्चुकीयः—जयतु महाराजः। एष खलु तत्र भवान् विभीषणो
विज्ञापयतिसुग्रीवनीलमैन्दजाम्बवद्धनुमत्प्रमुखाश्चानुगच्छन्तो विज्ञापयन्ति—
‘दिष्टचा भवान् वर्धते’ इति ।
रामः—‘सहायानां प्रसादाद् वर्धत’ इति कथ्यताम् ।
काञ्चुकीयः—यदाज्ञापयति महाराजः।
केंकेयी—धण्णा खु म्हि । इदं अब्भुदअं अओज्झाअं पेक्खिदुं इच्छामि ।
[धन्या खल्वस्मि । इदमभ्युदयमयोध्यायां प्रेक्षितुमिच्छामि ।]
रामः—द्रक्ष्यति भवती । (विलोक्य) अये, प्रभाभिर्वनमिदमखिलं सूर्यवत्
प्रतिभाति । (विभाव्य) आः ज्ञातम् । सम्प्राप्तं पुष्पकं दिवि रावणस्य विमानम् ।
कृतसमयमिदं स्मृतमात्रमुपतिष्ठतीति । तत् सर्वैरारुह्यताम् ।