सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 273, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 273

सप्तमोऽङ्कः [ २०६
छन्दः—वसन्ततिलका ।
अलङ्कार—उपमा और उदात्त । अरविन्द उपमान, मुख उपमेय, इव
उपमावाचक और जल से अभिषिक्त होना साधारण धर्म हैं । अतः पूर्णोपमा
अलङ्कार है ।
वसिष्ठवामदेवौ—वसिष्ठश्च वामदेवश्च तौ । ये दोनों इक्ष्वाकु कुल के
पुरोहित थे । राज्याभिषेक की सामग्री को साथ लेकर प्रजाजनों के साथ जनस्थान
में ही चले आये थे ।
कैकेयी—गच्छ जाद ! अभिलसेहि अभिसेअं । [गच्छ जात ! अभिलषा-
भिषेकम् ।]
रामः—यदाज्ञापयत्यम्बा । (निष्क्रान्तः)
(नेपथ्ये)
जयतु भवान् । जयतु स्वामी । जयतु महाराजः । जयतु देवः । जयतु
भद्रमुखः । जयत्वार्यः । जयतु रावणान्तकः ।
कैकेयी—एदे पुरोहिदा । कञ्चुइणो पुत्तअस्स मे विजअघोसं वड्ढअन्तो
आसीहि पूजअन्ति । [एते पुरोहिताः कञ्चुकिनः पुत्रकस्य मे विजयघोषं वर्धयन्त
आशीर्भिः पूजयन्ति ।
सुमित्रा—पइदीओ परिचारआ सज्जणा अ पुत्तअस्स मे विजअं वड्ढअन्ति ।
[प्रकृतयः परिचारकाः सज्जनाश्च पुत्रकस्य मे विजयं वर्धयन्ति ।]
(नेपथ्ये)
भो भो जनस्थाननिवासिनस्तपस्विनः ! शृण्वन्तु शृण्वन्तु भवन्तः—
हत्वा रिपुप्रभवमप्रतिमं तमौघं
सूर्योऽन्धकारमिव शौर्यमयैर्मयूखैः ।
सीतामवाप्य सकलाशुभवर्जनीयां
रामो महीं जयति सर्वजनाभिरामः ॥१०॥
कैकेयी—अम्महे ! पुत्तस्स मे विजअघोसणा वड्ढइ । [अहो ! पुत्रस्य मे
विजयघोषणा वर्धते ।]
[अन्वयः—अप्रतिमं रिपुप्रभवं तमौघं शौर्यमयैः मयूखैः सूर्यः अन्धकारम् इव
हत्वा, सकलाशुभवर्जनीयां सीताम् अवाप्य सर्वजनाभिरामः रामः महीं जयति ।।१०।।]
हिन्दी रूपान्तर—
कैकेयी—पुत्र ! जाओ । राज्याभिषेक को स्वीकार करो ।