सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 272, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 272

२०८ ] प्रतिमानाटकम्
तीर्थोदकेन मुनिभिः स्वयमाहृतेन
नानानदीनदगतेन तव प्रसादात् ।
इच्छन्ति ते मुनिगणाः प्रथमाभिषेकं
द्रष्टुं मुखं सलिलसिक्तमिवारविन्दम् ॥६॥
[अन्वयः—मुनिगणाः, तव प्रसादात् नानानदीनदगतेन मुनिभिः स्वयम्
आहृतेन तीर्थोदकेन प्रथमाभिषिक्तं ते मुखं सलिलसिक्तम् अरविन्दम् इव द्रष्टुम्
इच्छन्ति ॥६॥]
हिन्दी रूपान्तर—
राम—वत्स ! आओ, आओ। तुम्हारा कल्याण हो । आयुष्मान् होओ ।
शत्रुघ्न—मैं अनुगृहीत हूँ । आर्य ! मैं अभिवादन करता हूँ ।
सीता—वत्स ! चिरञ्जीवी होओ।
शत्रुघ्न—मैं अनुगृहीत हूँ । आर्य ! मैं अभिवादन करता हूँ ।
लक्ष्मण—कल्याण हो । आयुष्मान् होओ :
शत्रुघ्न—मैं अनुगृहीत हूँ । आर्य ! ये दोनों महर्षि वसिष्ठ और वामदेव
प्रजाओं के साथ राज्याभिषेक की सामग्री लेकर आपके दर्शन की अभिलाषा
करते हैं ।
अर्थ [श्लोक ६]—ये वसिष्ठ वामदेव आदि मुनि, तुम्हारी ही कृपा से
अनेक नदियों और नदों में स्थित, मुनियों द्वारा स्वयं लाये गये तीर्थों के जलों से,
प्रथम राज्याभिषेक किये गये आपके मुख को उसी प्रकार देखना चाहते हैं, जैसे कि
जल से भीगा हुआ श्वेत कमल हो ॥६॥
संस्कृत-व्याख्या—मुनिगणाः एते वसिष्ठवामदेवाद्यः ऋषयः, तव प्रसादात्
तवैव कृपाप्रभावात् त्वया रावणादिराक्षसानां वधः कृतः, अतएव सर्वे सञ्चारमार्गाः
प्रतिहतविघ्नाः सञ्जाताः, अतः तव प्रसादः एव जलानयनहेतुः, नाना विविधाः वा
नद्यः सरितः नदाः महानद्यः इति जलधारासु गतेन विद्यमानेन, मुनिभिः ऋषिभिः
स्वयम् आत्मनैव, न तु कैश्चिदपि सेवकैः, एवं तीर्थोदकपवित्रताप्रभावः, आहृतेन
आनीतेन तीर्थोदकेन तीर्थानां पुण्यस्थलानाम् उदकेन जलेन प्रथमाभिषिक्तं प्रथमं
प्राक्कृतमेव अभिषिक्तं राज्याभिषेककरणाय तीर्थजलार्द्रं ते तव रामस्य मुखं वदनं,
सलिलसिक्तं सलिलैः जलैः अभिषिक्तम् अभ्युक्षितम् अरविन्दं श्वेतकमलम् इव द्रष्टुम्
अवलोकयितुम् इच्छन्ति वाञ्छन्ति । स्वल्पेनैव कालेन ते राज्याभिषेकं विधातु-
मिच्छन्ति इत्यर्थः ॥६॥
व्याकरण—तीर्थानाम् उदकेन = तीर्थोदकेन । तरति पापादिकं यस्मात् =
√तृ + थक् = तीर्थं । उन्दी क्लेदने, √उन्द् + क्वुन् (अक) (न का लोप) =
उदक् । नाना नद्यः नदाश्च तत्र गतेन = नानानदीनदगतेन । अराणि चक्राङ्गानि इव
पत्राणि विन्दते = अर + विद् + श (नुम् का आगम) = अरविन्द ।