प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 271, कुल 296 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः [ २०७
हिन्दी रूपान्तर—
भरत—मैं अनुगृहीत हूँ । आर्ये ! मैं अभिवादन करता हूँ । मैं भरत हूँ ।
सीता—आर्यपुत्र के साथ चिरकाल तक विचरण करो ।
भरत—मैं अनुगृहीत हूँ । आर्य ! अभिवादन करता हूँ ।
लक्ष्मण—वत्स ! आओ, आओ । दीर्घायु होओ । मेरा प्रगाढ आलिङ्गन
करो । (आलिङ्गन करता है)
भरत—मैं अनुगृहीत हूँ । आर्य ! राज्य के भार को वापिस ले लीजिये ।
राम—वत्स ! यह कैसे हो सकता है ?
कैकेयी- वत्स ! यह हम लोगों का चिरकाल से अभीष्ट मनोरथ है ।
(तदनन्तर शत्रुघ्न प्रवेश करता है)
(समीप जाकर) आर्य ! मैं शत्रुघ्न आपका अभिवादन करता हूँ ।
शत्रुघ्न—
अर्थ [श्लोक ८]—अनेक प्रकार की आपत्तियों से सताये जाते हुये भी
जिनके गुण और तेज उपहत नहीं हुये, ऐसे तथा रावण का विनाश करने वाले बड़े
भाई को देखने के लिये मेरी बुद्धि शीघ्रता कर रही है ॥८॥
संस्कृत-व्याख्या—विविधैः नानाप्रकारैः व्यसनैः विपद्भिः क्लिष्टं सम्पीडितं,
तथापि अक्लिष्टगुणतेजसम् अक्लिष्टाः अनुपहताः गुणाः शीलशौर्यादिगुणाः तेजः
कान्तिश्च यस्य तादृशं रावणान्तकरं रावणस्य दशाननस्य अन्तं विनाशं करोति
विदधाति इति तथाभूतं गुरुं ज्येष्ठभ्रातरं रामं द्रष्टुम् अवलोकयितुं मे मम शत्रुघ्नस्य
बुद्धिः मतिः विचारः त्वरते शीघ्रतां करोति । उत्कण्ठते इत्यर्थः ॥८॥
व्याकरण—अक्लिष्टाः गुणाः तेजश्च यस्य तम् = अक्लिष्टगुणतेजसम् ।
√क्लिश् + क्त = क्लिष्टः । रावणस्य अन्तं करोति इति तम् = रावणान्तकरम् ।
छन्दः—अनुष्टुप् ।
अलङ्कार—उदात्त । राम के गुणातिशय का वर्णन करने से उदात्त
अलङ्कार है ।
—•—•—
रामः—एह्येहि वत्स ! स्वस्ति । आयुष्मान् भव ।
शत्रुघ्नः—अनुगृहीतोऽस्मि । आर्य ! अभिवादये ।
सीता—बच्च ! चिरं जीव । [वत्स ! चिरं जीव ।]
शत्रुघ्नः—अनुगृहीतोऽस्मि । आर्य ! अभिवादये ।
लक्ष्मणः—स्वस्ति । आयुष्मान् भव ।
शत्रुघ्नः—अनुगृहीतोऽस्मि । आर्य ! एतौ वसिष्ठवामदेवौ सह प्रकृति-
भिरभिषेकं पुरस्कृत्य त्वद्दर्शनमभिलषतः ।