सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 270, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 270

१०६ । प्रतिमानाटकम्
संस्कृत-व्याख्या — कवाटपुटं कपाटयुगलं तदिव प्रमाणं मानमाकारः विस्तीर्ण-
त्वं वा यस्य तादृशं वक्षः उरःस्थलं प्रसारय विस्तारय । तथाभूते च सति त्वयि ते
वक्षःस्थलस्य आलिङ्गनयोग्यता भविष्यति समधिकसुख्यानुभूतिश्च भविष्यति ।
सुविपुलेन अतिविशालेन भुजद्वयेन बाहुयुगलेन मां रामम् आलिङ्ग आश्लेषबद्धं कुरु ।
शरदिन्दुकल्पं शरत्कालीनचन्द्रसदृशम् इदम् आननं मुखम् उन्नामय उन्नतं कुरु, तथा-
भूते च सति ते मुखे दर्शनाधिकानन्दानुभवो भविष्यति । व्यसनदग्धं व्यसनैः पितृ-
निधनमातृभ्रातृवियोगादिजन्यैः कष्टैरापद्भिश्च दग्धं ज्वलन्तम् इदमेतत् शरीरं वपुः
प्रह्लादय आनन्दोच्छ्वसितं कुरु । विपद्भिः कष्टैश्च मे शरीरे दग्धतुल्या वेदना
वर्तते । तवालिङ्गनेन तव मुखदर्शनेनचेयं दाहवेदना शिशिरत्वमुपैष्यति ॥७॥
व्याकरण — प्र + मा + ल्युट् (अन) = प्रमाण ।
छन्दः — वसन्ततिलका ।
अलङ्कार — उपमा । प्रथम चरण में कवाटपुट उपमान, वक्षः उपमेय और
प्रमाण साधारण धर्म है । उपमावाचक पद के लुप्त होने से यह वाचकलुप्तोपमा है ।
तृतीय चरण में आनन उपमेय शरदिन्दु उपमान, कल्प उपमावाचक और प्रह्लादय
साधारण धर्म हैं ।
अवसितप्रतिज्ञम् — अवसिता प्रतिज्ञा येन तादृशम् । अव + षिण् + क्त +
टाप् = अवसिता । राम के प्रतिज्ञा पूरी करने से सब प्रसन्न हैं ।
भरतः — अनुगृहीतोऽस्मि । आर्ये ! अभिवादये । भरतोऽहमस्मि ।
सीता — अय्यउत्तेण चिरसञ्चारो होहि । [आर्यपुत्रेण चिरसञ्चारी भव ।]
भरतः — अनुगृहीतोऽस्मि । आर्य ! अभिवादये ।
लक्ष्मणः — एह्येहि वत्स ! दीर्घायुर्भव । परिष्वजस्व गाढम् ।
(आलिङ्गति) ।
भरतः — अनुगृहीतोऽस्मि । आर्य ! प्रतिगृह्यतां राज्यभारः ।
रामः — वत्स ! कथमिव ?
कैकेयी — जाद ! चिराहिलसिदो खु एसो मणोरहो । [जात ! चिराभि-
लषितः खल्वेष मनोरथः ।]
(ततः प्रविशति शत्रुघ्नः)
शत्रुघ्नः — विविधव्यसनैः क्लिष्टमक्लिष्टगुणतेजसम् ।
द्रष्टुं मे त्वरते बुद्धी रावणान्तकरं गुरुम् ॥८॥
(उपगम्य) आर्य ! शत्रुघ्नोऽहमभिवादये ।
[अन्वयः — विविधैः व्यसनैः क्लिष्टम् अक्लिष्टगुणतेजसं रावणान्तकरं गुरुं
द्रष्टुं मे बुद्धिः त्वरते ॥८॥]