प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 268, कुल 296 में से
संदर्भ में पढ़ें२०४ ] प्रतिमानाटकम्
(तदनन्तर माताओं के साथ भरत प्रवेश करता है)
भरत -
अर्थ [श्लोक ६]—शरद् ऋतु में मेघों से युक्त हुये निर्मल चन्द्रमा के समान,
उन उन नानाविध बढ़ी हुई आपत्तियों से छुटकारा पाये हुये तथा आर्या सीता के
साथ आये हुये बड़े भाई को देखने की इच्छा वाला मैं आज सन्तुष्ट हृदय वाला
होकर अपने सम्बन्धियों के साथ यहाँ आया हूँ ॥६॥
संस्कृत-व्याख्या—शरदि शरत्काले मेघापगमे मेघैः जलदैः विमुक्तम् आच्छा-
दनरहितं कृतम् अमलं निर्मलं दीप्तिशालिनं सोमं चन्द्रमसम् इव, तैः तैः वाचापि
वर्णयितुम् अशक्यैः प्रवृद्धविषयैः प्रवृद्धाः प्रवृद्धिं गताः विषयाः येषां तैः नानाविधैरित्यर्थः
विषमैः विपद्भिः विमुक्तम् आर्यासहायं आर्यया सीतया सहायं सहितं गुरुं ज्येष्ठं
भ्रातरं रामं दिदृक्षुः दर्शनेच्छुकः अहम् अद्य इदानीन्तने समये तुष्टहृदयः तुष्टं प्रसन्नं
हृदयं यस्य तादृशः सन् स्वजनानुबद्धः स्वैः जनैः आत्मीयैः सम्बन्धिभिः अनुबद्धः
अनुयातः प्राप्तः समागतः अस्मि । संकटमुक्तं ज्येष्ठभ्रातरं राममवलोकयितुमुत्सुकोऽहं
प्रसन्नहृदयोऽत्र स्वजनैः सद्धि समागतः ॥६॥
व्याकरण—प्रवृद्धाः विषयाः येषां तैः = प्रवृद्धविषयैः । प्र + √वृध् + क्त =
प्रवृद्ध । विष्ण्वन्ति स्वात्मकतया विषयिणं सम्बध्नन्ति = वि + √सि + अच् (षत्व)
= विषय । √दृश् + सन् + उ = दिदृक्षुः । तुष्टं हृदयं यस्य स = तुष्टहृदयः ।
छन्दः—वसन्ततिलका ।
अलङ्कार—उपमा । विषममुक्त राम उपमेय, मेघनिर्मुक्त सोम उपमान, इव
उपमावाचक तथा दर्शनाभिलाषा साधारण धर्म हैं ।
श्वश्रूजनपुरोगं भरतम्—श्वश्रूजनस्यः पुरः गच्छति इति तम् = श्वश्रूजन-
पुरोगम् । शु आशु अश्नुते = शु + √अश् + उरच् = श्वशुर + ऊङ् = श्वश्रू । भरत
अपनी माताओं के आगे-आगे चल रहे थे ।
एष्टव्ये काले—जिस समय भरत को देखने की सीता की इच्छा थी तथा
अयोध्या में प्रवेश से पूर्व भरत वहाँ समुचित समय में आ गये थे । इष् + तव्यत् =
एष्टव्य ।
रामः—अम्बाः ! अभिवादये ।
सर्वाः—जाद ! चिरं जीव । दिट्ठिआ वड्ढामो अवसिदपडिण्णं तुमं कुसलिणं
सह बहए पेक्खिअ । [जात ! चिरं जीव । दिष्ट्या वर्धामहे अवसितप्रतिज्ञं
त्वां कुशलिनं सह वध्वा प्रेक्ष्य ।]
रामः—अनुगृहीतोऽस्मि ।
लक्ष्मणः—अम्बाः ! अभिवादये ।