प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 267, कुल 296 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः । २०३
अर्थ [श्लोक ५]—आपके दर्शनों के लिये अत्यधिक उत्कण्ठित तथा भाई के
प्रति स्नेह करने वाला यह भरत महान् सेना और माताओं के साथ आ
पहुँचा है ॥५॥
संस्कृत-व्याख्या—त्वद्दर्शनसमुत्सुकः तव दर्शने अवलोकने समुत्सुकः अत्यधिकम्
उत्कण्ठितः भ्रातृवत्सलः स्निग्धः अयम् एष भरतः महता विशालेन सैन्येन सेनया
मातृभिः अम्बाभिश्च सह सम्प्राप्तः अस्मिन् तपोवने समायातः ॥५॥
व्याकरण—तव दर्शने समुत्सुकः = त्वद्दर्शनसमुत्सुकः । उद् + √ सृ +
क्विप् + कन् (ह्रस्व) = उत्सुक । भ्रातृषु वत्सलः = भ्रातृवत्सल । वत्स + लच् =
वत्सल ।
छन्दः—अनुष्टुप्
अलङ्कार—सहोक्ति ।
————
रामः—वत्स लक्ष्मण ! किमेवं भरतः प्राप्तः ?
लक्ष्मणः—आर्य ! अथ किम् ?
रामः—मैथिलि ! श्वश्रूजनपुरोगं भरतमवलोकयितुं विशालीक्रियतां
ते चक्षुः ।
सीता—अय्यउत्त ! इच्छिदव्वे काले भरदो आअदो । [आर्यपुत्र ! एष्टव्ये
काले भरत आगतः ।]
(ततः प्रविशति भरतः समातृकः)
भरतः—
तैस्तैः प्रवृद्धविषयैर्विषमैर्विमुक्तं
मेघैर्विमुक्तममलं शरदिव सोमम् ।
आर्यासहायमह्मद्य गुरुं दिदृक्षुः
प्राप्तोऽस्मि तुष्टहृदयः स्वजनानुबद्धः ॥६॥
[अन्वयः—शरदि मेघैः विमुक्तम् अमलं सोमम् इव, तैः तैः प्रवृद्धविषयैः विषयैः
विमुक्तम् आर्यासहायं गुरुं दिदृक्षुः अहम् अद्य तुष्टहृदयः स्वजनानुबद्धः प्राप्तः
अस्मि॥६॥
हिन्दी रूपान्तर—
राम—वत्स लक्ष्मण ! क्या इस प्रकार यह भरत आया है ?
लक्ष्मण—आर्य ! और क्या ?
राम—सीते ! तुम्हारी सासों के साथ आगे चलने वाले भरत को देखने के
लिये अपनी आँखों को खूब फैला लो ।
सीता—आर्यपुत्र ! अपने अभीष्ट समय पर भरत आ गये हैं ।