सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 264, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 264

२०० | प्रतिमानाटकम्
अलङ्कार—स्वभावोक्ति। सीता की स्वाभाविक अवस्था का वर्णन करने से
स्वभावोक्ति अलङ्कार है।
तापसीनाम्भिवादनार्थम्—भरद्वाज के आश्रम में आकर सीता स्वयं ही
तपस्विनियों का अभिवादन करने के लिये उनकी कुटियों में चली गई थी।
❖❖❖
(ततः प्रविशति सीता तापसी च)
तापसी—हला ! एसो दे उडुम्बिओ । उवसप्पणं । ण सक्कं तुमं एआइणिं
पेक्खिदुं । [हला ! एष ते कुटुम्बिकः । उपसर्पैनम् । न शक्यं त्वामेकाकिनीं
प्रेक्षितुम् ।]
सीता—हं अज्ज वि अविस्ससणीअं मे पडिभादि । (उपसृत्य) जेदु
अय्यउत्तो । [हम्, अद्याप्यविश्वसनीयमिव मे प्रतिभाति । जयत्वार्यपुत्रः ।]
रामः—मैथिलि ! अपि जानासि पूर्वाधिष्ठानमस्माकं जनस्थान-
मासीत् ? अप्यत्र ज्ञायन्ते पुत्रकृतकाः वृक्षाः ?
सीता—जाणामि जाणामि । आलोइअपत्तआ अब्लोइदव्वा दाणि संवृत्ता ।
[जानामि जानामि। अवलोकितपत्रका उल्लोकयितव्या इदानीं संवृत्ताः।]
रामः—एवमेतत् । निम्नस्थलोत्पादको हि कालः । मैथिलि ! अप्यु-
पलभ्यतेऽस्य सप्तपर्णस्याधस्ताच्छुक्लवाससं भरतं दृष्ट्वा परित्रस्तं
मृगयूथमासीत् ?
सीता—अय्यउत्त ! दिढं खु स्मरामि । [आर्यपुत्र ! दृढं खलु
स्मरामि ।]
रामः—अयं तु नस्तपसः साक्षिभूतो महाकच्छः । अत्रास्माभिरासी-
नैस्तातस्य निवपनक्रियां चिन्तयद्भिः काञ्चनपार्श्वो नाम मृगो दृष्टः ।
सीता—हं अय्यउत्त ! मा खु एवं भणिदुं । [हम् आर्यपुत्र ! मा खलु
मा खलु एवं भणितुम् ।] (भीता वेपते) ।
रामः—अलमलंसम्भ्रमेण । अतिक्रान्तः खल्वेष कालः । (दिशोऽवलोक्य)
अये कुतो नु—
रेणुः समुत्पतति लोध्रसमानगौरः
सम्प्रावृणोति च दिशः पवनावधूतः ।
शङ्खध्वनिश्च पटहस्वनधीरनादः
सम्मूर्च्छतो वनमिदं नगरीकरोति ॥४॥