सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 168, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 168

सीता--आर्यपुत्र ! एष्टव्ये काले भरतः आगतः ।
(ततः प्रविशति भरतः समातृकः)
भरतः--तैस्तैः प्रवृद्धविषयैर्विषमैर्विमुक्त
मेघैर्विमुक्तममलं शरदिव सोमम् ।
आर्यासहायमहमद्य गुरुं दिदृक्षुः
प्राप्तोऽस्मि तुष्टहृदयः स्वजनानुबद्धः ॥ (६)
रामः--अम्बा ! अभिवादये ।
सर्वाः--जात ! चिरञ्जीव । दिष्ट्या वर्धामहे अवसितप्रतिज्ञं त्वां
कुशलिनं सह वध्वा प्रेक्ष्य ।
रामः--अनुगृहीतोऽस्मि ।
क्ष्मणलः--अम्बाः । अभिवादये।
सर्वाः--जात ! चिरजीव ।
लक्ष्मणः--अनुगृहीतोऽस्मि ।
सीता--आर्याः ! वन्दे ।
सर्वाः--वत्से ! चिरमङ्गला भव ।
सीता--अनुगृहीतास्मि ।
भरतः--आर्य ! अभिवादये, भरतोऽहमस्मि ।
रामः - एह्येहि वत्स ! इक्ष्वाकुकुमार ! स्वस्ति, आयुष्मान् भव ।
वक्षः प्रसारयं कवाटपुटप्रमाण
मालिङ्ग मां सुविपुलेन भुजद्वयेन ।
उन्नामयाननमिदं शरदिन्दुकल्प
प्रह्लादय व्यसनदग्धमिदं शरीरम् ॥ (७)
भरतः--अनुगृहीतोऽस्मि । आर्ये ! अभिवादये । भरतोऽहमस्मि ।
सीता--आर्यपुत्रेण चिरसञ्चारी भव ।
भरतः--अनुगृहीतोऽस्मि । आर्य ! अभिवादये ।
लक्ष्मणः--एह्येहि वत्स ! दीर्घायुर्भव । परिष्वजस्व गाढम् । (आलि-
ङ्गति)