सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 164, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 164

( 185 )
(२) मूल
(ततः प्रविशति रामः)
रामः--भोः !
समुदितबलवीर्यम् रावणं नाशयित्वा
जगत्ति गुणसमग्रां प्राप्य सीतां विशुद्धाम् ।
वचनमपि गुरूणामन्तः पूरयित्वा
मुनिजनवनवासं प्राप्तवानस्मि भूयः ॥ (२)
तापसीनांमभिभवनार्थमभ्यन्तरं प्रविष्टा चिरायते खलु मैथिली ।
(विलोक्य) अये ! इयं वैदेही,
सरवीति सीतेति च जानकीति
यथावयः स्निग्धतरं स्नुषेति ।
तपस्विदारैर्जनकन्द्रपुत्री
सम्भाष्यमाणा समुपैति मन्दम् ॥ (३)
(ततः प्रविशति सीता तापसी च)
तापसी—हला ! एष ते कुटुम्बिकः । उपसर्पैनम् । न शक्यं त्वामे-
काकिनीम् प्रे क्षितुम् ।
सीता—हम्, अद्यात्यविश्वसनीयमिव मे प्रतिभाति । (उपसृत्य) जय-
त्वार्यपुत्रः ।
रामः—मैथिलि ! अपि जानासि, पूर्वाधिष्ठानमस्माकं जनस्थानमा-
सीत् । अप्यत्र ज्ञायन्ते पुत्रकृतका वृक्षाः ।
सीता—जानामि जानामि । अवलोकितंपत्रका उल्लोकयितव्या
इदानी संवृत्ताः ।
रामः—एवमेतत् । निम्नस्थलोत्पादको हि कालः । मैथिलि ! अप्यु-
पलभ्यतेऽस्य सप्तपर्णस्याधस्ताच्छुक्लवाससं भरतं दृष्ट्वा परि-
त्रस्तं मृगयूथमासीत् ।
सीता—आर्यपुत्र ! दृढं खलु स्मरामि ।
रामः—अयं तु नस्तपसः साक्षिभूतो महाकच्छः ।