सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 162, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 162

( १७७ )

मूल
कैकेयी—(आत्मगतम्) भवतु , इदानीं कालः कथयितुम् । (प्रकाशम्)
जात ! त्वं न जानासि महाराजस्य शापम् ।
भरतः—किं शप्तो महाराजः ?
कैकेयी—सुमन्त्र ! आचक्ष्व विस्तरेण ।
सुमन्त्र—यदाज्ञापयति भवती । कुमार ! श्रूयताम्—पुरामृगयां गतेन
महाराजेन कस्मिंश्चित् सरसि कलश पूरयमाणो वनगजवृं हि-
तानकारिशब्दसमुत्पन्नवनगजशङ्कया शब्दवेधिना शरेण
विपन्नचक्षुषो महर्षेश्चक्षुर्भूतो गुणितनयो हिंसितः ।
भरतः—हिंसित इति । शान्तं शान्तं पापम् । ततस्ततः ?
सुमन्त्रः—ततस्तमेव गतं दृष्ट्वा,
तेनोक्तं रुदितस्यान्ते मुनिना सत्यभाषिणा ।
यथाहं भोस्त्वमप्येवं पुत्रशोकाद् विपत्स्यते ॥ (१५) इति ।
भरतः—नन्विदं कष्टं नाम ।
कैकेयी—जात ! एतन्निमित्तमपराध मा निक्षिप्य पुत्रको रामो वनं
प्रेषितः, न खलु राज्यलोभेन । अपरिहरणीयो महर्षिशापः
पुत्रविप्रवासं विना न भवति ।
भरतः—अथ तुल्ये विप्रवासे कथमहमरण्यं न प्रेषितः ?
कैकेयी—जात ! मातुल कुले वर्तमानस्य प्रकृतिभूतस्ते विप्रवासः ।
भरत—अथ चतुर्दश वर्षाणि किं कारणमवेक्षितानि ?
कैकेयी—जात ! चतुर्दश दिवसा इति वक्तुकामया
पर्याकुलहृदयया चतुर्दश वर्षाणीत्युक्तम् ।
भरतः—अस्ति पाण्डित्यं सम्यग् विचारयितुम् । अपि विदितमेतद्
गुरुजनस्य ?
सुमन्त्रः—कुमार वसिष्ठवामदेवप्रभृतीनामनुमतं विदितं च ।
भरतः—हन्त ! त्रैलोक्यसाक्षिणः खल्वेते । दिष्ट्यानपराद्धात्रभवती ।
अम्ब ! यद् भ्रातृस्नेहात् समुत्पन्नमन्युना मया दूषितात्रभवती,
तत्सर्वं मर्षयितव्यम् । अम्ब ! अभिवादये ।