सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 149, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 149

तीक्ष्णैरायसकण्टकैरिव नखैर्भीमान्तरं वक्षसो
वज्राग्रैरिव दार्यमाणविषमाच्छैलाच्छिला पाट्यते ॥ (३)
द्वितीयः—हन्त ! सक्रुद्धेन रावणेनासिना क्रव्यादीश्वरः स दक्षिणां-
संदेशे हतः ।
उभौ—हा धिक् । पतितोऽत्रभवान् जटायुः ।
प्रथमः—भोः कष्टम् । एष खलु तत्रभवान् जटायुः ।
कृत्वा स्ववीर्यसदृशं परमं प्रयत्नं
क्रीडामयूरमिव शत्रुमुचिन्तयित्वा ।
दीप्तं निशाचरपतेरवधूय तेजो
नागेन्द्रभग्नवनवृक्ष इवावसन्नः ॥ (४)
उभौ—स्वर्ग्योऽयमस्तु ।
प्रथमः—काश्यप ! आगम्यताम् । इमं वृत्तान्तं तत्रभवते राघवाय
निवेदयिष्यावः ।
द्वितीयः—बाढम् । प्रथमः कल्पः । (निष्क्रान्तौ)
(विष्कम्भः)
शब्दार्थ—परित्रायता = सीता की रक्षा करो । भवन्त = हे जन-
स्थान के रहने वालो । नीलोत्पलदामवर्चसा = नील कमलों की माला के
समान तेज वाला । मृणालशुक्ला = कमल तन्तु के समान श्वेत । उज्ज्वल-
दंष्ट्रहासिना = हँसते समय चमकीले दाँतो वाला । निशाचरेन्द्रेण = रावण के
द्वारा । निशार्धचारिणा = चोर के द्वारा । मृगीव - हरिणी की भाँति ।
परिभूय -- दुःख देकर । नीयते = ले जाई जा रही है । विचेष्टमाना = छट-
पटाती हुई । भुजङ्गमाङ्गना = सर्पिणी । विधूयमाना = काँपती हुई ।
पुष्पिता = खिली हुई । प्रसह्य = बलपूर्वक । पापेन = बुरा कार्य करने वाले ।
दशाननेन = रावण के द्वारा । सिद्धिः = तपस्या की फल सम्पत्ति । अपनीयते
= अपहरण की जा रही है । वचनसमकाले = बोलने के साथ ही । आनृण्यम्
= मित्रता का बदला । कर्तुम् = चुकाने के लिए । यास्यसि = जाओगे ।