प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 148, कुल 296 में से
संदर्भ में पढ़ेंषष्ठ अङ्क
(१) मूल
(ततः प्रविशतो वृद्धतापसौ)
उभौ—परित्रायतां परित्रायतां भवन्तः !
प्रथमः—इयं हि नीलोत्पलदामवर्चसा,
मृणालशुक्लोज्ज्वलदंष्ट्रहासिना ।
निशाचरेन्द्रेण निशार्धचारिणा
मृगीव सीता परिभूय नीयते ॥ (१)
द्वितीयः—एषा खलु तत्रभवती वैदेही,
विचेष्टमानेव भुजङ्गमाङ्गना
विधूयमानेव च पुष्पिता लता ।
प्रसह्य पापेन दशाननेन सा
तपोवनात् सिद्धिरिवापनीयते ॥ (२)
उभौ—परित्रायतां परित्रायतां भवन्तः ।
प्रथमः—(ऊर्ध्वमवलोक्य) अये वचनसमकाल एव दशरथस्यानृण्यं
कर्तुम् “मयि स्थिते क्व यास्यसी” ति रावणमाहूयान्तरिक्ष-
मुत्पतितो जटायुः ।
द्वितीयः—एष रोषादुद्वृत्तनयनः प्रतिनिवृत्तो रावणः ।
प्रथमः—एष रावणः ।
द्वितीयः—एष जटायुः ।
उभौ—हन्तैतदन्तरिक्षे प्रवृत्तं युद्धम् ।
प्रथमः—काश्यप ! काश्यप ! पश्य क्रव्यादीश्वरस्य सामर्थ्यम् ।
पक्षाभ्यां परिभूय वीर्यविषयं द्वन्द्वं प्रतिव्यूहते
तुण्डाभ्यां सुनिघृष्टतीक्ष्णमचलः संवेष्टनं चेष्टते ।