सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 140, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 140

( 149 )
[रा]वणः--अलं परिहृत्य । पृच्छतु भवान् ।
[रा]मः--भगवन् ! निवपनक्रियाकाले केन पितॄंस्तर्पयामि ?
[रा]वणः--सर्वम् श्रद्धया दत्तं श्राद्धम् ।
[रा]मः--भगवन् ! अनादरतः परित्यक्तं भवति । विशेषार्थम् पृच्छामि ।
[रा]वणः--श्रूयताम् । विरूढेषु दर्भाः, ओषधीषुतिला, कलाय शाकेषु,
मत्स्येषु महाशफर., पक्षिषु वार्ध्रीणसः, पशुषु गौः खड्गो वा,
इत्येते मानुषाणां विहिताः ।
रामः--भगवन् ! वाशब्देनावगतमन्यदप्यस्तीति ।
रावणः--अस्ति प्रभावसम्पाद्यम् ।
रामः--भगवन् ! एष एव मे निश्चयः ।
उभयस्यास्ति सान्निध्यं यद्येतत् साधयिष्यति ।
धनुर्वा तपसि श्रान्ते श्रान्ते धनुषि वा तपः ॥ (६)
रावणः--सन्ति । हिमवति प्रतिवसन्ति ।
रामः--हिमवतीति । ततस्ततः ।
रावणः--हिमवत. सप्तमे शृंगे प्रत्यक्षस्थाणुशिरःपतितगङ्गाम्बु-
पायिनो वैदूर्यश्यामपृष्ठा. पवनसमजवाः काञ्चनपार्श्वा नाम
मृगाः, यैर्वैखानसबालखिल्यनैमिषीयादयो महर्षयश्चिन्तित-
मात्रोपस्थितविपन्नैः श्राद्धान्यभिवर्धयन्ति ।
तैस्तर्पिताः सुतफलं पितरो लभन्ते
हित्वा जरा खमुपयान्ति हि दीप्यमानाः ।
तुल्यं सुरैः समुपयान्ति विमानवास
मावृत्तिभिश्च विपयैन बलान् ध्रियन्ते ॥ (१०)
रामः--मैथिलि !
आपृच्छ पुत्रकृतकान् हरिणान् द्रुमांश्च
विन्ध्य वनं तव सखीर्दयिता लताश्च ।
वत्स्यामि तेषु हिमवद्गिरिकाननेषु
दीप्तैरिवौषधिवनैरुप रञ्जितेषु ॥ (११)
सीता--यदार्यपुत्र आज्ञापयति ।
रावणः--कौसल्यामातः ! अलमतिमनोरथेन । न ते मानुषैर्दृश्यन्ते ।