प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 135, कुल 296 में से
संदर्भ में पढ़ें(144)
राम—सीते, तुम्हारा सोचना नितान्त उचित है ।
यमराज के बाणों के प्रहार होने वाले मेरे शरीर पर हृदय का घाव
तो अभी वैसा ही है । इसी बीच अनेक फल वाले दुःख रूपी बाणों
के आघात उसी स्थान पर बार-बार गिर रहे हैं । (४)
सीता—आखिर आर्यपुत्र को किस बात की चिन्ता है ?
(२) मूल
रामः—श्वस्तत्रभवतस्तातस्यानुसंवत्सरश्राद्धविधिः ।
कल्पविशेषेणनिवपनक्रियामिच्छन्ति पितरः । तत
कथं निर्वर्तयिष्यामीत्येतच्चिन्त्यते । अथवा—
इच्छन्ति तुष्टिं खलु येन केन
त एव जानन्ति हि ता दशा मे ।
इच्छामि पूजां च तथापि कर्तुम्
तातस्य रामस्य च सानुरूपाम् ॥ (५)
सीता—आर्यपुत्र ! निर्वर्तयिष्यति श्राद्धं भरत ऋद्ध्या, अवस्था-
नुरूपं फलोदकेनाप्यार्यपुत्रः । एतत् तातस्य बहुमततरं
भविष्यति ।
रामः—मैथिलि !
फलानि दृष्ट्वा दर्भेषु स्वहस्तरचितानि नः ।
स्मारितो वनवासं च तातस्तत्रापि रोदिति ॥ (६)
(ततः प्रविशति परिव्राजकवेषो रावणः)
रावणः—एष भोः !
नियतमनियतात्मा रूपमेतद् गृहीत्वा
खरवधकृतवैरं राघवं वञ्चयित्वा ।
स्वरपदपरिहीणां हव्यधारामिवाहं
जनकनृपसुतां तां हर्तुकामः प्रयामि ॥ (७)
(परिक्रम्याधो विलोक्य)
इदं रामस्याश्रमपदद्वारम् । यावदवतरामि । (अवतरति)
यावदहमप्यतिथिसमुदाचारमनुष्ठास्यामि । अहमतिथिः ।
कोऽत्र भोः !