सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 124, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 124

( 133 )
है। हे श्रेष्ठ पुरुष, मनुष्यों में माता के अपराध को अपराध नहीं
माना जाना चाहिए। हे वर देने वाले, दुःखी भरत की ओर न्यायो-
चित दृष्टि से देखें। (२१)
मूल
-आर्यपुत्र ! अतिकरुणं मन्त्रयते भरतः । किमिदानीमार्यपुत्रेण
चिन्त्यते ।
.-मैथिलि !
तं चिन्तयामि नृपतिं सुरलोकयातं
येनायमात्मजविशिष्टगुणो न दृष्टः ।
ईदृग्विधं गुणनिधिम् समवाप्य लोके
धिग् भो विधेर्यदि बलं पुरुषोत्तमेषु ॥ (२२)
वत्स कैकेयीमातः !
यत्सत्यं परितोषितोऽस्मि भवता निष्कल्मषात्मा भवां
स्त्वद्वाक्यस्य वशानुगोऽस्मि भवतः ख्यातैर्गुणैर्निर्जितः ।
किन्त्वेतन्नृपतेर्वचस्तदनृतं कर्तुम् न युक्तं त्वया
किञ्चोत्पाद्य भवद्विधं भवतु ते मिथ्याभिधायी पिता ॥(२३)
भरतः-यावद् भविष्यति भवन्नियमावसानं
तावद् भवेयमिह ते नृप, पादमूले ।
रामः-मैवं नृपः स्वसुकृतैरनुयातु सिद्धिं
मे शापितो न परिरक्षसि चेत् स्वराज्यम् ॥ (२४)
भरतः-हन्त अनुत्तरमभिहितम् । भवतु समयतस्ते राज्यं परि-
पालयामि ।
रामः-वत्स ! कः समयः ?
भरतः-मम हस्ते निक्षिप्तं तव राज्यं चतुर्दश वर्षान्ते प्रतिग्रहीतु-
मिच्छामि ।
रामः एवमस्तु ।
भरतः-आर्ये ! श्रुतम् । आर्ये ! श्रुतम् । तात ! श्रुतम् ।
सर्वे-वयमपि श्रोतारः ।