प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 113, कुल 296 में से
संदर्भ में पढ़ें110 )
किम् नृपफलतर्पं, किम् नरेन्द्रो न दद्यात् ।
अथ तु नृपतिमातेत्येप शब्दस्तवेष्टो
वदतु भवति ! सत्य किम् तवार्यो न पुत्रः ॥ (२१)
कष्टं कृतं भवत्या,
त्वया राज्यैषिण्या नृपतिरसुभिर्नैव गणितः
सुतं ज्येष्ठं च त्व व्रज वनमिति प्रेषितवती ।
न शीर्णम् यद् दृष्ट्वा जनकतनयां वल्कलवती
महो धात्रा सृष्टं भवति ! हृदयं वज्रकठिनम् ॥ (२२)
सुमन्त्रः--कुमार ! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिरभिषेकं
पुरस्कृत्य भवन्तं प्रत्युद्गतौ विज्ञापयतः,
गोपहीना यथा गावो विलयं यान्त्यप्रालिता ।
एवं नृपतिहीना हि विलयं यान्ति वै प्रजाः ॥ (२३)
भरतः--अनुगच्छन्तु मां प्रकृतयः ।
सुमन्त्रः--अभिषेकं विसृज्य क्व भवान् यास्यति ?
भरतः--अभिषेक्रमिति । इहात्रभवत्यै प्रदीयताम् ।
सुमन्त्र--क्व भवान् यास्यति ?
भरतः--तत्र यास्यामि यत्रासौ वर्तते लक्ष्मणप्रियः ।
नायोध्या तं विनायोध्या सायोध्या यत्र राघवः ॥ (२४)
(निष्क्रान्ता सर्वे)
तृतीयोऽङ्कः ।
शब्दार्थ— जात = पुत्र । सत्यवचन - विवाह के समय दिया गया शुल्क
प्रतिज्ञा वाक्य । रक्षन्त्या = सच करने वाली । तथोक्तम् = वैसा कहा । पुत्रकः
-- वेटा । भवत्याः = आपका अर्थात् कैकेयी का । मे = मेरे । औरसः = स्व
योत्पन्न । क्रमेण = वड' की परम्परा से । अभिषिच्यते = राज्याभिषेक किया
जाता है । दयिताः = प्रिय । स्युः = होवे । प्रकृतीना = अमात्य आदि को (यहाँ
'रुच्' के योग मे चतुर्थी आनी चाहिए, किन्तु षष्ठी का प्रयोग किया गया है ।
यह भास का 'आर्ष प्रयोग' है) । रोचते = अच्छा लगता है । शुल्कतुब्धा =
विवाह मे प्रतिज्ञात अर्थ को लेने की लोभी । ननु = क्या । प्रष्टव्या = पूछा
जाना चाहिए । हृतराजश्रीः = जिसकी राजलक्ष्मी ले ली गई है । पदातिः =