प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 105, कुल 296 में से
संदर्भ में पढ़ें(ततः प्रविशन्ति देव्यः सुमन्त्रश्च)
सुमन्त्रः— इत इतो भवत्यः ।
इदं गृहं तत् प्रतिमानृपस्य नः
समुच्छ्रयो यस्य स हर्म्यदुर्लभः ।
असन्निवृत्तैरप्रतिहारिकागतै-
र्विना प्रणामं पथिकैरुपास्यते ॥ (१३)
(प्रविश्यावलोक्य) भवत्यः ! न खलु न खलु प्रवेष्टव्यम् ।
अयं हि पतितः कोऽपि वयःस्थ इव पार्थिवः ।
देवकुलिकः—
परशङ्कामलं कर्तुं गृह्यतां भरतो ह्ययम् ॥ (१४)
(निष्क्रान्तः)
देव्यः—(सहसोपगम्य) हा जात ! भरत !
भरतः—(किञ्चित् समाश्वस्य) आर्य !
सुमन्त्रः—जयतु महा— (इत्यर्धोक्ते सविषादम्) आहो स्वरसादृश्य-
मन्ये प्रतिमास्थो महाराजो व्याहरतीति ।
भरतः—अथ मातृणामिदानीं काऽवस्था ।
देव्यः—जात ! एषा नोऽवस्था । (अवगुण्ठनमपनयन्ति)
सुमन्त्रः—भवत्यः ! निगृह्यतामुत्कण्ठा ।
भरतः—(सुमन्त्रं विलोक्य) सर्वसमुदाचारसन्निकर्षस्तु मा सूचयति
कच्चित् तात ! सुमन्त्रो भवान् ननु ।
सुमन्त्रः—कुमार ! अथ किम् । सुमन्त्रोऽस्मि ।
अन्वास्यमानश्चिरजीवदोषैः
कृतघ्नभावेन विडम्ब्यमानः ।
अहं हि तस्मिन् नृपतौ विपन्ने
जीवामि शून्यस्य रथस्य सूतः ॥ (१५)
शब्दार्थ—समाश्वस्य=आश्वासन पाकर । अटवीभूतां=अरण्य के तुल्य
वर्जिताम्=रहित । पिपासार्तः=पानी की इच्छा से पीडित । अनुधावामि=पीछे
दौडता हूं । क्षीणतोयां=सूखे जल वाली । विस्तरश्रवणं=विस्तार से समाचार