सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 100, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 100

( 97 )
अहा, अकस्मात् स्वेच्छा से ही मुझे महान् फल मिल गया । आप
कहिए, ये कौन महानुभाव है ?
(४) मूल
देवकुलिकः—अयं खलु तावत्त सन्निहितसर्वरत्नस्य विश्वजितो यज्ञस्य
प्रवर्तयिता प्रज्वलितधर्मप्रदीपो दिलीपः ।
भरतः—नमोऽस्तु धर्मपरायणाय । अभिधीयतां कस्तावदत्रभवान् ?
देवकुलिकः—अयं खलु तावत् संवेशनोत्थापनयोरनेकब्राह्मणजन-
सहस्रप्रयुक्तपुण्याहशब्दरवो रघुः ।
भरतः—अहो बलवान् मृत्युरेतामपि रक्षामतिक्रान्तः । नमोऽस्तु
ब्राह्मणजनावेदितराज्यफलाय । अभिधीयतां कस्ताव-
दत्रभवान् ?
देवकुलिकः—अथ खलु तावत् प्रियावियोगनिर्वेदपरित्यक्तराज्यभारो
नित्यावभृथस्नानप्रशान्तरजा अजः ।
भरतः—नमोऽस्तु श्लाघनीयपश्चात्तापाय । (दशरथस्य प्रतिमामव-
लोकयन् पर्याकुलो भूत्वा)
भोः ? बहुमानव्याक्षिप्तेन मनसा सुव्यक्तं नावधारितम् ।
अभिधीयतां कस्तावदत्रभवान् ?
देवकुलिकः—अयं दिलीपः ।
भरतः—पितृपितामहो महाराजस्य । ततस्ततः ।
देवकुलिक.—अत्रभवान् रघुः ।
भरतः—पितामहो महाराजस्य । ततस्ततः ।
देवकुलिकः—अत्रभवानजः ।
भरतः—पिता तातस्य । किमिति किमिति ।
देवकुलिक —अयं दिलीपः, अयं रघुः, अयमजः ।
भरतः—भवन्तं किञ्चित् पृच्छामि । धरमाणानामपि प्रतिमाः
स्थाप्यन्ते ?
देवकुलिकः—न खलु, अतिक्रान्तानामेव ।
भरतः—तेन ह्यापृच्छे भवन्तम् ।
देवकुलिकः—तिष्ठ ।