सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 59, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 59

प्रमाणसिद्धिः ३३

बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि ।
प्रज्ञादेर्भवतो देहनिर्ह्रासातिशयौ विना ॥ ७५ ॥
इदं दीपप्रभादीनामाश्रितानां न विद्यते ।
स्यात् ततोऽपि विशेषोऽस्य न चित्तेऽनुपकारिणि ॥ ७६ ॥
रागादिवृद्धिः पुष्ट्यादेः कदाचित् सुखदुःखजा ।
तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधेः ॥ ७७ ॥
एतेन सन्निपातादेः स्मृतिभ्रंशादयो गताः ।
पुनश्चित्तशरीरयोरुपादानोपादेयतां निषेद्धुमाह—बुद्धिव्यापारभेदेन
मनोज्ञानस्याभ्यासविशेषेण निर्ह्रासातिशयावुपचयापचयावपि प्रज्ञादेः, आदि-
शब्दान्मैत्रीकरुणावैराग्यादीनाम्, भवतो देहस्य निर्ह्रासातिशयौ विना । तस्माद्
बुद्धिरेवोपादानकारणम्, तद्विकारविकारित्वात् न देहः; विपर्ययात् ॥ ७५ ॥
इदमाश्रयविकारं विनापि विकारित्वं दीपप्रभादीनामाश्रितानां न
विद्यते; तद्विकारविकारित्वात् ।
अथ देहादपि स्वस्थात् प्रज्ञादेरुत्कर्षो दृश्यत इति तद्विकारविकारित्व-
मस्त्येव ? इत्याह—स्यात् ततो देहादपि विशेषोऽस्य प्रज्ञादेः, न चित्तेऽनु-
पकारिणि । चित्तं हि स्वस्थदेहोपकृतसौमनस्यमभ्यासविशेषवत प्रज्ञादिक-
मुत्कर्षयति । न गुणेऽपि चित्ते देह एव१ ॥ ७६ ॥
अमुमेव न्यायं रागादावाह—यापि रागादिवृद्धिः पुष्ट्यादेः सापि, न
सर्वदा, अपि तु कदाचित् ; प्रकृत्या मन्दरागस्य प्रतिसंख्यानबलिनश्च पुष्ट्यापि
रागावृद्धेः । यदापि भवति, तदापि न केवलत् पुष्ट्यादेः, किन्तु सुखदुःखजा ।
सुखाद् रागः, दुःखाद् द्वेषः—इति न चित्तनिरपेक्षो रागादिहेतुर्देहः । तयोश्च
सुखदुःखयोर्धातुसाम्यादेरन्तरर्थस्यानुग्राहकस्य अन्तःस्प्रष्टव्यविशेषस्यान्तरस्य
स्पर्शज्ञानविषयीकृतस्य सन्निधेर्जन्म । सुखदुःखज्ञाने अपि विशिष्टविषयपूर्वज्ञान-
सापेक्षे एव, न देहमात्रजन्ये इत्यर्थः ॥ ७७ ॥
एतेनानन्तरोक्तन्यायेन२ सन्निपातादेः, आदिग्रहणाज्ज्वरादेः स्मृतिभ्रंशा-
१. उत्कर्षमाप्नोतीति शेषः । २. एतेनान्तरोक्त०--रा० ।
प्र० वा० ; ३