सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 77, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 77

[Page Header]
द्वितीयोऽङ्कः ५६


कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् ॥१३॥
दम्भः—सत्यमेतत्तथापि नैतत्कामक्रोधाभिभूतानां सम्भाव्यते । तथा
ह्युदाहरन्ति तैर्थिकाः—
'यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च तीर्थं च स तीर्थफलमश्नुते ॥ १४ ॥' इति ।

विजयी शिवः अन्तकाले प्राणप्रयाणसमये भवभयेन सांसारिकभीत्या कातराणां
सभयानां तारकम् उद्धरणसमर्थम् प्रबोधम् । इह वाराणस्याम् कथयति उपदिशति ।
इह काश्यां कारुणिकः शिवो ब्रह्मज्ञानवञ्चितेभ्यो जनेभ्यस्तदन्तकाले मुक्तिप्रदं तारक-
मन्त्रमुपदिशन्ति येन ते सद्य एव मुक्ता भवन्तीति भावः । तथा चोक्तम्—'मुमूर्षो-
र्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यति तं मन्त्र समुक्तो भविता शिवः'
'मुमूर्षोर्मणिकर्ण्यन्तरर्थोदकनिवासिनः । अहं दिशामि ते मन्त्र तारकं ब्रह्मसञ्ज्ञकम्' ।
भगवानन्तकालेऽत्र तारकस्योपदेशतः, अविमुक्तस्थितान् जन्तून्मोचयेन्नात्र संशयः ।
इति । काश्यां मोक्षस्य सर्वसाधारणलभ्यतया महामोहचिकीर्षितो विवेकोपरोधो
न सिद्ध्यति तदशक्यप्रतीकार एवात्र विवेकवास इति भावः । पुष्पिताग्रावृत्तमिदम्
'अयुजि नयुगरेफतो जकारो युजि च नजौ जरजाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥
एतत्—सर्वेषामेव काशीवासिनां भगवता चरमसमये तारकोपदेशतो मोच्य-
मानत्वम् ।
यस्येति० यस्य जनस्य पादौ चरणौ सुसंयतौ निषिद्धसञ्चारपराङ्मुखौ, हस्तौ च
सुसंयतौ अप्रतिग्रहौ, मनश्च सुसंयतम् परद्वेषाकाम्यकामनादिनिवृत्तम्, विद्या
सुसंयता परप्रतारणादिविमुखी, तपः व्रतादिसुसंयतम् दम्भेनासंस्पृष्टम्, तीर्थम्
योनिरूपस्थेन्द्रियम् सुसयतम् अनिषिद्धगामि, सतीर्थफलम् काशीरूपतीर्थलभ्य-
मोक्षरूपं फलमश्नुते प्राप्नोति । सामान्यतः काशीक्षेत्रे मृतानां मोक्षमुपदिशतां
शास्त्राणां विशेषशास्त्रेणानेनैकवाक्यतयाऽर्थसङ्कोचे काश्यामपि संयतानामेव तीर्थ-
फलाधिगम इति नियमितं बोध्यम् । अत्र सुसंयतशब्दस्य विभक्तिलिङ्गयोर्विपरिणा-
मेन सर्वत्रान्वयो बोध्यः । उक्तश्चायमर्थो विस्तारेण काशीखण्डे उत्तरभागे षण्ण-


बचानेके लिये उन्हे तारक मन्त्रका उपदेश देते है ॥ १३ ॥
दम्भ—यह ठीक है, फिर भी काम और क्रोधसे अभिभूत लोगों के विषयमें ऐसी
स भावना नहीं है । शास्त्रकारों ने कहा है—
जिस व्यक्तिके हाथ-पैर तथा मन संयत है और विद्या तथा तप भी ठिकाने हैं वही
व्यक्ति तीर्थफल प्राप्त करता है ॥ १४ ॥