सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 76, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 76

विद्याप्रबोधोदयजन्मभूमिर्वारणसी ब्रह्मपुरी निरत्यया ।
असौ कुलोच्छेदविधिं चिकीर्षुर्निर्वस्तुमत्रेच्छति नित्यमेव ॥ १२ ॥
अहङ्कारः—( सभयम् ) यद्यप्येवमशक्यप्रतीकार एवायमर्थः । यतः—
परममविदुषां पदं नराणां पुरविजयी करुणाविधेयचेताः ।
विद्येति० ब्रह्माकाराऽन्तःकरणवृत्तिर्विद्या, ब्रह्माकारान्तःकरणवृत्त्युपहितं चैतन्यं
च प्रबोधोदयः, तयोर्जन्मभूमिः उत्पत्तिस्थानम्, निरत्यया अविनाशिनी ब्रह्मपुरी
शिवनगरी वाराणसी काशी अस्तीति शेषः । वाराणस्या ज्ञानक्षेत्रतया नित्याप्रलयेऽपि
न नाशः, अत्र ब्रह्मपुरीति शब्दे ब्रह्मपदं च शिवपरम् , तदुक्तम्—'ब्रह्मज्ञानं प्रधा-
नञ्च क्षेत्रञ्चाङ्कारबुद्धयः । मोक्षो हिरण्यगर्भश्च मन्त्रो वेदः शिवस्तथा' इति । कुलो-
च्छेदविधिम् मायिकवंशविनाशकार्यम् चिकीर्षुः कर्तुं कामयमानः असौ विवेकः अत्र
[L11: वाराणस्याम् नित्यमेव सततम् निवस्तुम् वासं कर्तुम् इच्छति कामयते । विवेको
नाम मायाप्रसूतमनोजनितत्वान्मायावंशप्रभवोऽपि मतिमान्धत्वशान्मायिकवंशं
विनाशयितुं कामयमानोऽत्र वाराणस्यां सार्वदिकं स्वं वासं कर्तुमिच्छति, यतोऽवि-
नाशिनीयं शिवपुरी विद्याप्रबोधोदयजन्मभूमितया प्रसिद्धा । अत्र निवत्स्यतो विवेक-
स्योपरोधार्थमेव महामोहस्यात्रागमनं जातमिति भावार्थः । अन्योऽपि राजा स्ववि-
रोधिभूपति विजयावहसैन्याद्युपकरणसञ्चयप्रवृत्ततया तदुपपादनसौविध्यशालिनि
क्वचन क्षेत्रे वासमाचरन्तं संभाव्य तदुपरोधार्थं तदागमात्पूर्वमेव तत्रावासं विरचय-
तीति मनसिकृत्यायं व्यवहारसमारोपः । इन्द्रवज्रावृत्तम्, तल्लक्षणं यथा—'स्यादिन्द्र-
वज्रा यदि तौ जगौ गः' इति ॥ १२ ॥
यद्यप्येवम् , आचर्यते मोहेनेति योजनीयम्, यद्यपि मोहस्येयं चेष्टा प्रवर्त्त-
ताम् , तथापि अशक्यप्रतीकारः-अवरोद्धुमशक्यः । मोहो यथेच्छं चेष्टतां विवे-
कोऽपरोधाय परं विवेकाभिमतो विद्याप्रबोधोदयोऽत्र वाराणस्यां प्रतिबन्धुमशक्य
इति भावः ।
परममिति० परमम् पदम् ब्रह्मस्वरूपम् अविदुषाम् अजानताम् ब्रह्मज्ञानरहिता-
नाम् नराणाम् भगवान् सर्वसामर्थ्यशाली करुणाविधेयचेताः कारुणिकहृदयः पुर-
विद्या तथा प्रबोधोदयकी जन्मभूमि यह नित्या काशीपुरी ही है, अपने कुलके उच्छेद
की इच्छासे सदा वे यही वास करना चाहते हैं ॥ १२ ॥
अहङ्कार —( भयसे ) यद्यपि इस तरह तो इसका कोई उपाय है भी नही । क्योंकि—
परमतत्त्वको नही जाननेवाले जब मरने लगते हैं तब महादेव दया करके भवभय से