सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 73, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 73

द्वितीयोऽङ्कः ५५
अहंकारः-(स्वगतम्) अहो, दाम्भिकस्य ब्राह्मणस्यात्युक्तिः ।
(विचिन्त्य) अथवा दम्भोऽयम् । भवत्वेवं तावत् । (प्रकाशम्) आः, किमेवं
गर्वायसे । (सक्रोधम्)
अरे क इव वासवः कथय कोऽत्र पद्मोद्भवो
वद प्रभवभूमयो जगति का मुनीनामपि ।
अवेहि तपसो बलं मम पुरन्दराणां शतं
शतं च परमेष्ठिनां पततु वा मुनीनां शतम् ॥ ११ ॥
वेशितः स्थापितोऽस्मि । ब्रह्मलोकं गते मयि सपदि ऋषयोऽभ्युत्थाय सद्कुर्वन्माम्,
ब्रह्मा चात्मनः स्वतः पूतमप्यूरुदेशं मदुपवेशनानहं प्रतीत्य तत्काल एवाम्भःसहायेन
गोमयेन प्रक्षाल्य मदुपवेशयोग्यतां लम्भयित्वा तत्र सशपथममुनीयोपवेशितोऽ-
भूवमिति । ब्रह्मणाऽपि तथाऽऽद्रियमाणस्य मम गौरवे तव का विचिकित्सेति भावः ।
मालिनीवृत्तम्, तल्लक्षणं यथा-'ननममययुतेयं मालिनी भोगिलोकै.' इति ॥ १० ॥
दाम्भिकस्य-दम्भेन जीवतः । अत्युक्तिः-अतिशयिता उक्तिः, उक्तावतिशयश्चा-
यथाविषयकत्वम् । गर्वायसे-गर्ववानिवाचरसि, गर्ववच्छब्दात् 'कर्त्तुः क्यङ् सलोपश्च'
इति क्यङ् 'विन्मतोर्लुक्' इति मतुपो लुक् ।
अरे क इति० अरे इति साधिक्षेपं दम्भसंबोधनम्, वासवः इन्द्रः क इव कीदृशः ?
तस्यापि चरितं गुरुतल्पगमनं प्रसिद्धम् । पद्मोद्भवः ब्रह्मा अत्र गौरवतारतम्ये कः
कतमः ? तस्यापि निजकन्याऽभिकत्वं नाविदितम् । मुनीनां व्यासादीनां जगति
प्रभवभूमयः उत्पत्तिस्थानानि कानि ? इति वद कथय । व्यासस्य धीवरकन्यागर्भ-
सम्भूतत्वम्, अगस्त्यस्य घटयोनित्रा, ऋष्यशृङ्गस्य हरिण्या जन्मेति कथाः प्रतीङ्गितं
कृतम् । मम तपसः तपश्चर्यायाः बलम् सामर्थ्यम् अवेहि जानीहि, पुरन्दरा-
णाम् इन्द्राणाम् शतम्, परमेष्ठिनां च शतम् मुनीनां वा शतम् पततु, मत्तःसा-
मर्थ्यस्य पुरतः का कथा शतस्येन्द्रणाम् परमेष्ठिनाम् मुनीनां वेति तात्पर्यम् ।
तदेवं सामर्थ्यशालिनो मम पुरतो विकत्थना तव लज्जां न जनयतीत्याश्चर्यम्
अहङ्कार--(स्वगत) अहा, इस दाम्भिक ब्राह्मणकी बातें तो सुनो । (सोचकर)
अथवा-यह तो दम्भ ही है । अस्तु । (प्रकाश) आ., क्यों इतना घमण्ड कर रहा
है । (क्रोधसे)
अरे, कहो तो इन्द्र कौन है ? ब्रह्माकी क्या हस्ती है ? बताओ इन मुनियोंकी पैदाइश
कहाँ से हुई है ? मेरी तपस्यामे वह शक्ति है जिसके सामने सैकड़ो इन्द्र तथा ब्रह्माको
झुकना पड़े ॥ ११ ॥