प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 270, कुल 274 में से
संदर्भ में पढ़ेंप्रकाशकर्तृवंशपरिचयः
माण्डरसंज्ञकमैथिलभूसुरवंशेऽजनिष्ट कृती ।
श्रीमान् 'कन्हाइ' मिश्रो हतजनताऽज्ञानतामिस्रः ॥ १ ॥
उदितश्छीतनशर्मा ततः सुमेरोरिवादित्यः ।
योऽमानि मान्तिनिवहश्रेयान् सुकृतावदातारमा ॥ २ ॥
मृतपितृकः स बाल्ये मातुलकुलमाश्रितः शरणम् ।
ग्रामे 'पकड़ी' नामनि गृहस्थतां प्रापितो न्यवसत् ॥ ३ ॥
तत्त॒नयेषु प्रथमो वयसा ज्ञानेन यशसा च ।
'मधुसूदन' मिश्राख्यो भक्तश्चतुराग्रणीरभवत् ॥ ४ ॥
तत एव श्री 'जयमणि' संज्ञायां मातरि प्रापम् ।
जनिमब्धिरामवसुभूमितशाके 'रामचन्द्रो'ऽहम् ॥ ५ ॥
प्रभवादष्टमशरदि स्नेहान्मामुपनिनीषन्तम् ।
तातं सदा स्वतन्त्रा नियतिरकार्षीत् कथाशेषम् ॥ ६ ॥
बाल्ये पण्डित 'किङ्कर' शर्मकृपाप्राप्तबोधस्य ।
मम चक्षुषी चमत्कृतसंस्कृतभाषा-प्रयोगेषु ॥ ७ ॥
उन्मीलिते अभूतां श्री 'श्रीनाथा'ख्यविबुधस्य ।
मम मातुलस्य चरणौ निषेवमाणस्य न चिरेण ॥ ८ ॥
गूढं शास्त्ररहस्यं ज्ञातुं निखिलं निबद्धकक्षस्य ।
उपदेशको ममाऽभू'दीश्वर' नाथो विदद्वन्द्यः ॥ ९ ॥
स्वाभाविक्या कृपया स्नेहेनान्तःप्ररूढेन ।
ममतादृशा च यो मामपुषत् सोदर्यभावेन ॥ १० ॥
तत्कृपयाऽधिगताखिलसंस्कृतसाहित्यमर्माणम् ।
बुधवर 'किशोरि' शर्मा मां व्यधिताचार्यपदभाजम् ॥ ११ ॥
श्रीयुत 'जटेश्वरा'भिधविद्वद्वरपादमुपजीव्य ।
दर्शनशास्त्ररहस्यं न चिरेणाशेषमाचकलम् ॥ १२ ॥
एतानन्याँश्च गुरून् मनसि ममावस्थितान् सततम् ।
ध्यायामि यत्कृपा मे मानुष्यकमञ्जसाऽस्ताक्षीत् ॥ १३ ॥
सोऽह वाक्परिचरणव्यापृतचेताः प्रकाशममुम् ।
निरमामिह विद्वांसः कृपास्पृशः स्वाद्दशो दध्युः ॥ १४ ॥